________________
९० संगीतरत्नाकरः
[.स्वरविशेषेणैव भेदस्तात्त्विकः प्रतीयते तथा मन्द्रमध्यतारस्थानस्थितानां षड्जादीनामपीति कथमत्रैव काल्पनिकत्वमङ्गीक्रियते ? ब्रूमः ; प्रत्यभिज्ञानात्स्थानत्रये ऽपि त एव स्वरा इति प्रतीयते । य एव मन्द्रस्थः षड्जः स एवायं मध्यस्थाने तारस्थाने च प्रतीयत इति सकललोकसाक्षिका प्रत्यभिज्ञा नावज्ञातुं शक्यते । नैवं षड्जषभादिषु सप्तसु प्रत्यभिज्ञालेशो ऽप्यस्तीति महान्विशेषः । एवं शुद्धान्सप्त स्वरान्निरूप्य द्वादश विकृतान्स्वगन्विभज्य निरूपयति-त एवेति । ते शुद्धाः सप्त स्वरा एव विकृतावस्था विकारं प्राप्ता द्वादशसंख्याका भवन्ति ॥ ३९ ॥ तमेव विकारं दर्शयति-च्युत इति । द्विश्रुतिः षड्जो द्विधा विकृतो भवतीति च्युतश्चाच्युतश्चेत्युच्यते । तत्र च्युतो यस्यां चतुर्थ्या श्रुतौ स्थापितस्तस्याः सकाशात्प्रच्युतः, अच्युतस्तु तस्यामेव श्रुताववस्थितः पूर्वश्रुतिहीनतया विकृतो भवति । कदा तस्यैवंविधं विकृतत्वम्! तदाह-साधारण इति । साधारणे स्वसाधारणे निषादस्य च काकलीत्व उभयविधं विकृतत्वम् ।
'निषादो यदि षड्जस्य श्रुतिमाद्यां समाश्रयेत् ।
ऋषभस्त्वन्तिमा प्रोक्तं षड्जसाधारणं तदा ॥' इति वक्ष्यमाणे षड्जसाधारणे षड्जः स्वस्थानाच्चतुर्थश्रुतेः प्रच्युतस्तृतीयश्रुताववस्थितो विकृतो भवति ।
'श्रुतिद्वयं चेत्षड्जस्य निषादः संश्रयेत्तदा ।
स काकली मध्यमस्य गांधारस्त्वन्तरः स्वरः ॥' इति वक्ष्यमाणे निषादस्य काकलीत्वे पूर्वश्रुतिद्वयहीनत्वादच्युतः स्वस्थाने चतुर्थश्रुतौ स्थित एव विकृतो भवति । ननु स्वस्थानस्थितस्य पूर्वश्रुतिद्वयहीनत्वे ऽपि ध्वनिविकाराभावात्कथं विकृतत्वम् ? उच्यते-यद्यपि पूर्वश्रुतिविहीनत्वे तत्स्थानस्थितत्वाद् ध्वनिविकारो नास्ति, तथा ऽपि निषादस्य स्वस्थानस्थितत्वे चतु:श्रुतित्वात्षड्जस्यायतत्वं भवति । यदा काकलीत्वे निषादः षड्जस्य द्वितीयश्रुतौ तिष्ठति, तदा द्विश्रुतित्वादनायतः प्रतीयते । तस्माद्भवत्येव विकृतः ॥ ४० ॥ ऋषभस्य विकृतत्वं कथयति-साधारण इति । साधारणे षड्जसाधारणे षड्जस्यान्तिमां श्रुतिमृषभो गृह्णाति, तदा चतुःश्रुतिः सन्विकृतो भवति ॥ ४१ ॥ गांधारस्य द्वौ भेदौ विकृतौ कथयति–साधारण इति । साधारणे मध्यमसाधारणे
Scanned by Gitarth Ganga Research Institute