________________
- ० रसाः ३]
साधारणे त्रिश्रुतिः स्यादन्तरत्वे चतुःश्रुतिः । गांधार इति तद्भेौ द्वौ निःशङ्केन कीर्तितौ ॥ ४२ ॥ मध्यमः षड्जवद् द्वेधाऽन्तरसाधारणाश्रयात् । पञ्चमो मध्यमग्रामे त्रिश्रुतिः कैशिके पुनः ॥ ४३ ॥ मध्यमस्य श्रुतिं प्राप्य चतुःश्रुतिरिति द्विधा । धैवतो मध्यमग्रामे विकृतः स्याच्चतुःश्रुतिः ॥ ४४ ॥ कैशिके काकलीत्वे च निपादस्त्रिचतुःश्रुतिः । प्राप्नोति विकृतौ भेदौ द्वाविति द्वादश स्मृताः ।। ४५ ।। शुद्धैः सप्तभिः सार्धं भवन्त्ये कोनविंशतिः ।
प्रथमः स्वरगताध्यायः
चाच्युत इति दृश्यते ॥ साधारणे त्रिश्रुतिः स्यादित्यत्र मध्यमसाधारण इत्यर्थः । अन्तरत्वे चतुःश्रुतिरित्यत्र स्वस्यान्तरत्व इति विशेषणीयम् ॥ मध्यमः पड्जवदिति । अत्र षड्जवदिति षड्जो यथा द्विश्रुतिर्विकृतश्चयुतत्वाच्युतत्वभेदभिन्नस्तथा मध्यमो ऽपीति वतेरर्थः ॥ कैशिके काकलीत्वे चेत्यत्र कैशिके षड्जसाधारणे त्रिश्रुतिः स्वस्य काकलीत्वे चतुःश्रुतिरिति ।। ३९ - ४५ ॥
1
श्रुतिभ्य: . 2 प्रतिभाति.
(सु० ) एवं श्रुती: श्रुतिजाती : 'श्रुतिजातिभ्यः स्वरोत्पत्ति च कथयित्वा स्वरभेदान्निरूपयति - त इति । ते षड्जादयः स्वरास्त्रिधा त्रिप्रकाराः । कुतस्त्रिप्रकारत्वम् ? अत आह— मन्द्रमध्यताराख्यस्थानभेदात् । ततश्च तात्त्विको भेदो नास्ति, किं तु स्थानकल्पितो भेदः । यथैक एव देवदत्तस्त्रिभूमिके प्रासादे प्रथमभूमिकायां द्वितीयभूमिकायां तृतीयभूमिकायां च तिष्टन्नन्य इव भासते तथा स्वरा अपि स्थानविशेषेणेत्यर्थः । ननु यथा षड्जादीनां सप्तानां स्वराणां स्थान
८९
12
Scanned by Gitarth Ganga Research Institute