________________
१२३
क्रमतानाः ४] प्रथमः स्वरगताध्यायः
एकस्वरास्त्वभेदत्वान्मौला एव चतुर्दश ।। ४९ ॥ पड्जादेः शुद्धमध्याया भेदकं पञ्चमं विना ।
चतुःस्वरे क्रमद्वंद्वे ऽष्टाचत्वारिंशदीरिताः ॥ ५० ।। धारयुक्तत्वाच्चतुःप्रकाराः। अन्ये ऽष्टौ भेदास्तु चत्वागे निषादहीनाश्चत्वारश्च गांधारहीनाः, तस्माद् द्विप्रकागः । एवं चत्वारिंशत् (४०) औडुवा: क्रमा भवन्ति । प्रतिक्रमं च विंशत्युत्तरं शतम् (१२०) भेदा भवन्ति । अतश्च विंशत्युत्तरे शते चत्वारिंशता गुणिते ऽप्टशताधिकानि चत्वारि सहस्राणि (४८००) पञ्चस्वराः कूटताना: क्रमः सह भवन्ति ॥ ४१-४४- ॥ चतुःस्वरान्क्रमान्परिगणयति-चतुःस्वरेष्विति । ग्रामद्वये चतुर्दशसु मूर्च्छनाभेदेषु मध्ये निषादाद्यौ द्वौ भेदौ चतुःस्वरौ निषादगांधारयुक्तत्वाच्चतुर्धा । अपरे द्वादश भेदा एकैकयुक्तत्वाद् द्विधा । एवं द्वात्रिंशत् (३२) चतुःस्वराः क्रमा भवन्ति । प्रतिक्रमं चतुर्विशतिः (२४) भेदाः । अतश्चतुर्विशत्या गुणितायां द्वात्रिंशत्यष्टषष्टयधिकानि सप्त शतानि (७६८) चतु:स्वराः कूटताना: क्रमैः सह भवन्ति ॥ -४५, ४६ ॥ त्रिस्वरान्क्रमान्गणयति--त्रिस्वरेष्विति । त्रिस्वराणां चतुर्दशानां क्रमाणां मध्ये माद्यौ मध्यमाद्यौ द्वौ भेदौ निषादगांधारहीनत्वादभेदौ भेदशून्यौ । अपरे द्वादश भेदा निषादगांधारयोरैकैकयुक्तत्वाद् द्विप्रकाराः । एवं षडिशतिः (२६) त्रिस्वरा: क्रमा: संपद्यन्ते । प्रतिक्रमं च षड़ (६) भेदाः । ततश्च षड्भिर्गुणितायां षडिंशतौ षट्पञ्चाशदुत्तरं शतम् (१५६) त्रिस्वराः कूटतानाः क्रमैः सह भवन्ति । द्विस्वरान्क्रमान्परिगणयति-द्विस्वरेप्विति । ग्रामद्वये चतुर्दशानां द्विस्वराणां मध्य ऋषभाद्यौ द्वौ भेदौ, गांधाराद्यौ द्वौ, धेवताद्यौ द्वौ, निषादाद्यौ द्वौ । एवमष्टौ भेदा निषादगांधारयोरेकैकयुक्तत्वाद् द्विधा । अपरे तु षड् भेदा उभयहीनत्वाच्छुद्धाः सान्तरत्वादिभेदहीनाः । एवं द्विस्वरा द्वाविंशतिः (११) क्रमा भवन्ति । प्रतिक्रमं च भेदद्वयम् (२) । अतश्च ते द्वाविंशतिर्भदा द्वाभ्यां गुणितायां द्वाविंशतौ चतुश्चत्वारिंशद् (४४) द्विस्वराः कूटतानाः क्रमैः सह भवन्ति ॥ ४७-४८- ॥
(क०) एकस्वरास्त्विति । तुशब्दो द्विस्वरादिक्रमवैषम्यद्योतनार्थः । वैषम्यं चात्र काकल्यन्तरप्रयुक्तभेदराहित्यम् । अभेदत्वात्प्रस्तारप्रयुक्तभेदर
Scanned by Gitarth Ganga Research Institute