SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ८६ संगीतरत्नाकरः [०स्वरजाति०दयावती तथा ऽऽलापिन्यथ प्रोक्ता मदन्तिका। त्रयस्ते करुणाभेदा मृदोर्मेंदचतुष्टयम् ।। ३३ ॥ मन्दा च रतिका प्रीतिः क्षितिर्मध्या तु षड्विधा । छन्दोवती रञ्जनी च मार्जनी रक्तिका तथा ॥ ३४ ॥ रम्या च क्षोभिणीत्यासामथ ब्रूमः स्वरस्थितिम् । तीव्राकुमुद्वतीमन्दाच्छन्दोवत्यस्तु पड्जगाः ॥ ३५ ॥ दयावती रञ्जनी च रक्तिका चर्षभे स्थिताः । रौद्री क्रोधा च गांधारे वजिका ऽथ प्रसारिणी ॥ ३६॥ प्रीतिश्च मार्जनीत्येताः श्रुतयो मध्यमाश्रिताः । क्षिती रक्ता च संदीपन्यालापिन्यपि पश्चमे ॥ ३७ ॥ मदन्ती रोहिणी रम्येत्येतास्तिस्रस्तु धैवते । उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती ॥ ३८ ॥ संख्यया तुर्याऽऽदिव्यपदेशे च पूर्वपूर्वस्यां साकाङ्क्षतया यतो निर्धार्यते ऽत इत्यर्थः । श्रुतीनामन्योऽन्यमसंकीर्णतया स्वरूपपरिज्ञानाय क्वचित्तासां साजात्येन संगत्या रक्तिलाभाय चावान्तरभेदसहितानां जातीनां स्वरेषु व्यवस्थानं दर्शयति-दीप्ता ऽऽयतेत्यादिना । स्वरविनियोगानन्तरमुद्दिष्टानामपि श्रुतिजातीनामिह निरूपणं श्रुतिस्वरविवेचनरूपार्थसंगतिवशादुपपन्नम् । व्युत्क्रमेणोद्देशस्तु क्वचित्क्रमस्याविवक्षितत्वज्ञापनार्थम् । एतेन ' कुलानि जातयः-' इत्यादिक्रमस्त्वविवक्षित इति मन्तव्यम् ॥ -२५-३८ ॥ ___ (सु०) 'श्रुतिभ्यः स्युः स्वराः' इत्युक्तम् ; तत्र श्रुतिभ्य इति पञ्चम्या 'जनिकर्तुः प्रकृतिः' इत्यनेन श्रुतीनां स्वरान्प्रति कारणत्वं प्रतीयते ; अयं स्वरश्चतुःश्रुतिरयं स्वरस्त्रिश्रुतिरयं द्विश्रुतिरित्युक्तत्वाच्च सर्वासामपि कारणत्वं Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy