________________
प्रथमः स्वरगताध्यायः
०रसा: ३]
ननु श्रुतिश्चतुर्थ्यादिरस्त्येवं स्वरकारणम् ।। २५ ॥ त्र्यादीनां तत्र पूर्वासां श्रुतीनां हेतुता कथम् । बमस्तुर्यातृतीयाऽऽदिः श्रुतिः पूर्वाऽभिकाङ्क्षया ॥ २६ ।। निर्धार्यते ऽतः श्रुतयः पूर्वा अप्यत्र हेतवः । दीप्ता ऽऽयता च करुणा मृदुमध्येति जातयः ॥ २७ ॥ श्रुतीनां पञ्च तासां च स्वरेष्वेवं व्यवस्थितिः । दीप्ता ऽऽयता मृदुर्मध्या षड्जे स्यादृपभे पुनः ॥ २८ ।। संस्थिता करुणा मध्या मृदुर्गाधारके पुनः । दीप्ताऽऽयते मध्यमे ते मृदुमध्ये च संस्थिते ।। २९ ॥ मृदुमेध्या ऽऽयताऽऽरख्या च करुणा पश्चमे स्थिता । करुणा चायता मध्या धैवते सप्तमे पुनः ॥ ३० ॥ दीप्ता मध्येति तासां च जातीनां ब्रूमहे भिदाः । तीव्रा रौद्री वज्रिकोग्रेत्युक्ता दीप्ता चतुर्विधा । ३१ ॥ कुमुदत्यायता या ऽस्याः क्रोधा चाथ प्रसारिणी। संदीपनी रोहिणी च भेदाः पञ्चेति कीर्तिताः ॥ ३२ ॥
(क०) यद्येवं चतुर्थ्यादेरेव श्रुतेः स्वरकारणत्वमस्तु, न पूर्वपूर्वासामित्याक्षिपति-नन्विति । व्यादीनामिति । तृतीयाऽऽदीनामित्यर्थः । अत्र वृत्तौ तीयप्रत्ययान्तस्य ' प्रत्ययलोपे ऽपि तदर्थग्रहणम्' इति व्यादीनामिति निर्देशोपपत्तिः । समाधत्ते-म इति । तुर्यातृतीयाऽऽदिः, षड्जमध्यमपञ्चमानां तुर्या, ऋषभधैवतयोस्तृतीया, आदिशब्देन गांधारनिषादयोद्वितीया च श्रुतिः, पूर्वाऽभिकाङ्क्षया, आदिशब्दसामर्थ्यात्पूर्वेत्यस्य वीप्सा कर्तव्या पूर्वपूर्वाऽभिकाङ्क्षयेति । उत्तरोत्तरतारूपेण लक्षणेन स्वोत्पत्तौ
Scanned by Gitarth Ganga Research Institute