SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ८४ संगीतरनाकरः [०स्वरजाति० यदभाणि विवर्तत्वं स्वराणां तदसंगतम् । विवर्तत्वे स्वराणां हि भ्रान्तिज्ञानं प्रसज्यते ॥ तथा च कारणत्वं च श्रुतीनां नैव संभवेत् । कार्येषु विद्यमानेषु कारणस्योपलम्भनात् ॥ घटादौ विद्यमाने हि मृत्पिण्डो नोपलभ्यते । परिणामो ऽप्यभिव्यक्तिय्यिः पक्षः सतां मतः ॥' इति । मतङ्गेन त्वन्यथा स्वरशब्दो व्युत्पादितः । यदाह 'राज दीप्तावस्य धातोः स्वशब्दपूर्वकस्य च । स्वयं हि राजते यस्मात्तस्मात्स्वर इति स्मृतः ॥' इति । षड्जादीनां निरुक्तिरुक्ता संगीतसमयसारकारेण नासा कण्ठ उरस्तालु जिह्वा दन्तास्तथैव च । षडभिः संजायते यस्मात्तस्मात्षड्ज इति स्मृतः ॥ नाभेः समुत्थितो वायुः कण्ठशीर्षसमाहतः । नदत्यृषभवद्यस्मात्तस्मादृषभ ईरित: ॥ नाभेः समुत्थितो वायुः कण्ठशीर्षसमाहतः । गन्धर्वसुखहेतुः स्याद्गांधारस्तेन हेतुना ॥ वायुः समुत्थितो नाभेहृदये च समाहतः । मध्यस्थानोद्भवत्वात्तु मध्यमत्वेन कीर्तितः ॥ वायुः समुत्थितो नाभेरोष्ठकण्ठशिरोहृदि । पञ्चस्थानसमुद्भूतः पञ्चमस्तेन कीर्तितः ॥ नाभेः समुत्थितो वायुः कण्ठतालुशिरोहृदि । तत्तत्स्थानधृतो यस्मात्ततो ऽसौ धैवतो मतः ॥ नाभेः समुत्थिते वायौ कण्ठतालुशिरोहते । निषीदन्ति स्वरा: सर्वे निषादस्तेन कथ्यते ॥ इति ॥ -२४, २४-॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy