________________
- ० रसाः ३]
८३
विशेषणं निग्ध इति । यद्यपि स्निग्वत्वमपामेव धर्म:, 'स्नेहो ऽपां विशेषगुण:' इत्युक्तत्वात, न तस्य श्रवणेन्द्रियगम्यता; तथा ऽप्यौपचारिकं स्निग्धत्वं स्वरेषु गृह्यते । अत्र बहुधा विप्रतिपत्तिः केचित्स्वरश्रुत्योस्तादात्म्यं वर्णयन्ति । यदाहु:
प्रथमः स्वरगताध्यायः
'विशेषस्पर्शशून्यत्वाच्छ्रवणेन्द्रियगम्ययोः ।
स्वरश्रुत्योस्तु तादात्म्यं जातिव्यक्त्योरिवानयोः ॥ '
इति । केचित्स्वरश्रुत्योर्विवत्यविवर्तकतामाचक्षते । यदाहु:'नराणां तु मुखं यद्वद्दर्पणेषु विवर्तते ।
प्रतिभान्ति स्वरास्तद्वच्छ्रुतिष्वेव विवर्तिनः ॥ '
इति । केचित्स्वरश्रुत्योः कार्यकारणभावं वदन्ति । यदाहु:
'स्वराणां श्रुतिकार्यत्वमिति केचिद्वदन्ति हि । मृत्पिण्डदण्डकार्यत्वं घटस्येह यथा भवेत् ॥
,
इति । केचित्परिणामपक्षमाद्रियन्ते । यदाहु:
( 'श्रुतयः स्वररूपेण परिणामं व्रजन्ति हि । परीणमेद्यथा क्षीरं दधिरूपेण सर्वधा ॥ '
इति । केचित्पुनरभिव्यक्तिपक्षमङ्गीकुर्वते । यदाहु:
' षड्जादयः स्वराः सप्त व्यज्यन्ते श्रुतिभिः सदा । अन्धकार स्थिता यद्वत्प्रदीपेन घटादयः ॥ '
इति । एतेषु पक्षेषु परिणामाभिव्यक्तिपक्षावेव स्वीकृतौ मतङ्गेन । यदाह
'भेदः स्वलक्षणानां सामान्येनान्यवस्तुवत्सिद्धः । तद्धि विशेषैः शून्यं भवति नभः पुपसंकाशम् ॥ नानाबुद्वि गृहीतत्वात्स्वरश्रुत्योस्तु भिन्नता । आश्रयाश्रयिभेदाच्च तादात्म्यं केन सिध्यति ॥
Scanned by Gitarth Ganga Research Institute