SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः [.स्वरश्रुत्यनन्तरभावी यः स्निग्धो ऽनुरणनात्मकः ॥ २४ ॥ खतो रञ्जयति श्रोतचित्तं स स्वर उच्यते । कारयुक्तं पञ्चमस्वरमुद्धरेत् । पञ्चमस्य चतुर्थमकारयुक्तं षष्ठस्वरमुद्धरेत् । पञ्चमस्य पञ्चमं कामबीजयुक्तं सप्तमस्वरमुद्धरेत् । अत्र सरिगादिप्वाद्याक्षराणां व्यञ्जनत्वात्कथं स्वरत्वमित्याक्षिप्याचार्यपरिभाषया संकेतमात्रमेतदिति प्रत्याह मतङ्गः ।। २३, २३- ॥ (सु०) एवं श्रुतीनिरूप्य स्वरान्निरूपयति-श्रुतिभ्य इति । षड्जर्षभेयादीनामाद्याक्षरैर्व्यवहारार्थ संज्ञान्तराणि कथयति-तेषामिति । सरिगमपधनीत्येताः प्रथमं स्वरोपादानात्तेषां पूर्वाभ्यो ऽपराः संज्ञाः । यद्यपि षऋगमपधनीति संज्ञाघोषणं युक्तं तथा ऽपि सरिगेत्यपभ्रंशः पाठः ।। २३, २३ ॥ (क०) स्वराणां सामान्यलक्षणं स्वरशब्दस्य निरुक्तिं चाहश्रुत्यनन्तरेति । श्रुत्यनन्तरभावी, श्रुतेश्चतुर्थ्यादेर्मारुताद्याहत्युत्पन्नप्रथमध्वनेरनन्तरं भाव्याविर्भवनशीलः, स्निग्धो ऽरूक्षः सन्दूरसंश्राव्यः, अनुरणनात्मको ऽनुस्वानरूपः, स्वतः सहकारिकारणनिरपेक्षं श्रोतृचित्तं रञ्जयत्यनुरक्तं करोति । स्वतःशब्दोपपदात् 'रञ्ज रागे' इत्यस्माद्धातोः ‘अन्येभ्यो ऽपि दृश्यते' इति डप्रत्यये टिलोपे पूर्वपदस्थतकारादेः पृषोदरादित्वाल्लोपे च स्वर इति रूपसिद्धिः ॥ -२४, २४ ॥ (सु०) स्वरस्य लक्षणं निर्वचनं च कथयति-श्रुत्यनन्तरेति । श्रुतेरनन्तरं भवतीति श्रुत्यनन्तरभावी । प्रथमतन्त्र्यामाहतायां यो ध्वनिरनुरणनशून्य उत्पद्यते स श्रुतिः, यस्तु ततो ऽनन्तरमनुरणनरूपः श्रूयते स स्वरः । कथं तस्य स्वरत्वमित्यत आह-स्वत इति । स्वतो ऽन्यानपेक्षतया यस्माच्छ्रोतृचित्तं रञ्ज पति तस्मात्स्वर इति निरुक्तिः । कथं तस्य रञ्जकत्वम् ? अतो हेतुगर्भ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy