________________
- ० रसाः ३]
प्रथमः स्वरगताध्यायः
८१
' पचि विस्तारे ' इत्यस्माद्धातोर्भावे धनि पञ्चं विस्तारं मिमीत इति 'आतो ऽनुपसर्गे कः' इति कप्रत्यये पञ्चम इति रूपम् । ' ह्वावामश्च' इत्यण्युक् संज्ञात्वादुपेक्ष्येते । यद्वा पृषोदरादित्वाद्युगभाव आलोपश्च । स्वराणां क्रमेण गणने पञ्चमत्वाद्वा पञ्चमस्थानसंभूतत्वाद्वा पञ्चमः ।
‘धीरस्यास्तीति धीवांस्तत्संबन्धी धैवतः स्मृतः । यद्वा, ' षष्ठस्थाने धृतो यस्मात्ततो ऽसौ धैवतो मतः । '
धीरस्यास्तीति धीवान् तत्संबन्धित्वेन ' तस्येदम्' इत्यणि धैवत इति रूपम् । संबन्धित्वं चानेकप्रकारं निरूप्यनिरूपकलक्षणमास्वाद्यास्वादकलक्षणं जन्यजनकलक्षणं चेति । तत्रोत्तरस्वरेण संसृष्टश्रुतित्वात्स्थूलमतीनां दुर्विवेकत्वाद्धीमतः सूक्ष्ममतेरेव निरूप्यत्वाद्वैवतः । षष्ठस्थाने ललाटस्थाने धृतत्वाद्वा धैवतः ।
' निषीदन्ति स्वराः सर्वे निषादस्तेन कथ्यते । '
6
(
पदल विशरणे' इत्यस्माद्धातोः, निषीदन्ति पर्यवस्यन्त्यस्मिन्स्वरा इति 'अकर्तरि च ' इति सूत्रेण घञि निषाद इति रूपम् । इत्युक्तप्रकारेण ते स्वराः सप्तैवेति नियमे सप्तधात्वाश्रितत्वं सप्तचक्राश्रितत्वं वा निमित्तं मतङ्गोक्तमनुसंधेयम् || प्रयोगसौकर्यार्थ तेषामाद्याक्षराण्युद्धृत्य संज्ञाऽन्तरायाह - तेषां संज्ञा इति । सरिगादीनां मतङ्गाभिमत उद्धारक्रम उच्यते
- अत्राकचटतपयशा अष्टौ वर्गाः । तत्राष्टमस्य तृतीयं हरिबीजयुक्त माद्यस्वरमुद्धरेत् । हरिबीजमकारः । सप्तमस्य द्वितीयं कामबीजयुक्तं द्वितीयस्वरमुद्धरेत् । कामबीजमिकारः । द्वितीयस्य तृतीयं हरिबीजयुक्तं तृतीयस्वरमुद्धरेत् । षष्ठस्य पञ्चममकारयुक्तं 'चतुर्थस्वरमुद्धरेत् । षष्ठस्य प्रथमम -
मध्यमस्वरं समुद्धरेत्.
11
Scanned by Gitarth Ganga Research Institute