________________
८०
संगीतरत्नाकरः
[.स्वरषडपि स्वराञ्जनयति प्रकाशयतीति जनेरन्त वितण्यर्थात् · अन्येप्वपि दृश्यते' इति डप्रत्यये टिलोपे च सति षड्ज इति रूपम् । षभिः स्वरैरङ्गभावेन प्रविष्टैर्जन्यते प्रकाश्यत इति वा षड्जः । पूर्ववद्रूपसिद्धिः । षड्भ्यो नासाकण्ठोरस्तालुजिह्वादन्तस्थानेभ्यो जायत इति वा ‘पञ्चम्यामजातौ' इति डप्रत्यये षड्ज इति ।
' प्राप्नोति हृदयं शीघ्रमन्यस्मादृषभः स्मृतः । स्त्रीगवीपु यथा तिष्ठन्विभाति ऋषभो महान् ॥
स्वरग्रामे समुत्पन्नः स्वरो ऽयमृषभस्तथा ।' ऋषति गच्छति हृदयमन्यस्वरेभ्य इति 'ऋष गतौ' इत्यस्माद्धातोरौणादिके ऽभच्प्रत्यये ऋषभ इति रूपम् । यथा गोसमूहे बलीवर्दस्तथा स्वरसमूहे राशौ द्वितीयो बलवान् । ऋषभवन्नदतीति वा ऋषभः ।
'वाचं गानात्मिकां धत्त इति गांधारसंज्ञकः' गां गानामिकां वाचं धत्त इति ‘धृ धारणे' इत्यस्माद्धातोर्गोशब्दे कर्मण्युपपदे ऽण्प्रत्यये पृषोदरादित्वाहहुलग्रहणाद्वा ऽलुकि गांधार इति रूपम् । गान्धर्वसुखहेतुत्वाद्वा गांधारः ।
_ 'स्वराणां मध्यमत्वाच्च मध्यमः स्वर इष्यते ।' सप्तानां स्यराणां चतुर्थो यः स्वरस्तस्य मध्यस्थत्वात् · मध्यान्मः' इति भवार्थे मप्रत्यये मध्यम इति रूपम् । अथ वा मद्धियो ऽमो रोग इति मद्धयमः । यद्वा मम धियो रोग इति मद्ध्यमशब्देन सप्तानां स्वराणां श्रयमाणो रुचिरत्वाशङ्कया पीडयतीत्यर्थः ।
'स्वरान्तराणां विस्तारं यो मिमीते स पञ्चमः । पाठक्रमेण गणने संख्यया पञ्चमो ऽथ वा ॥'
Scanned by Gitarth Ganga Research Institute