________________
७९
-०रसाः ३]
प्रथमः स्वरगताध्यायः पञ्चमो धैवतश्चाथ निषाद इति सप्त ते ॥ २३ ॥
तेषां संज्ञाः सरिगमपधनीत्यपरा मताः । यथायोगं द्वाविंशतेः श्रुतिभ्यः सप्त स्वरा भवन्तीत्यर्थः । अत्र पञ्च पक्षाः संभवन्ति-श्रवणैकेन्द्रियग्राह्यत्वाद्विशेषस्पर्शशून्ययोः स्वरश्रुत्योर्जातिव्यक्त्योरिव तादात्म्यमिति प्रथमः पक्षः । दर्पणे मुख विवर्तवच्छ्रतिषु स्वरा विवर्तन्त इति द्वितीयः । यथा घटस्य मृत्पिण्डदण्डादिकार्यत्वं तथा स्वराणां श्रुतिकार्यत्वमिति तृतीयः । क्षीरं दधिरूपेणेव श्रुतयः स्वररूपेण विपरिणमन्त इति चतुर्थः । प्रदीपादन्धकारस्थितघटायभिव्यक्तिवच्छृतिभ्यः स्वराणामभिव्यक्तिरिति पञ्चमः । नाद्यः, स्वरश्रुत्योभिन्नबुद्धिग्राह्यत्वादाश्रयाश्रयित्वभेदाच्च जातिव्यक्त्योरपि 'निर्विशेषं न सामान्यम्' इति न्यायेन भेदस्य सिद्धत्वाच्च । न द्वितीयः, विवर्तत्वे हि स्वराणां भ्रान्तत्वं स्यात् ; न च तथा, तेषामबाधितप्रयोगहेतुत्वदर्शनात् । तृतीयो ऽपि न परीक्षाक्षमः । स्वरव्यतिरेकेण श्रुतिसद्भावे प्रमाणाभाव इति वक्तुं हि न युक्तम् , ' स्वरस्य हि श्रूयमाणमनुरणनात्मकत्वं रणनमन्तरेण नोपपद्यते' इत्यार्थापत्त्या वा, 'अयं स्वरो रणनपूर्वको ऽनुरणनात्मकत्वाद्दण्डाहतजयघण्टाऽनुरणनशब्दवत् ' इत्यनुमानेन वा तत्सिद्धेः । सत्यम् । यद्यपि स्फुटपौर्वापर्येण कार्यकारणभावप्रतीतिरस्ति, तथा ऽप्युपादानस्य मृत्पिण्डादेर्यथा घटादिकार्यनिप्पत्तौ भेदेनानुपलब्धिर्न तथेह स्वरनिप्पत्तौ श्रुतीनामनुपलम्भ इति तासामकारणत्वात् । चतुर्थपञ्चमावदुष्टत्वेन मतङ्गादिसंमतत्वाद् ग्राह्यौ । अथ शुद्धस्वरानन्वर्थतया प्रसिद्धैर्नामभिः परिगणयति---पड्जेति । षड्जादिनाम्नामन्वर्थता मतङ्गादिभिरुक्ता । तद्यथा
'षण्णां स्वराणां जनकः षड्भिर्वा जन्यते स्वरैः । षड्भ्यो वा जायते ऽङ्गेभ्यः षड्ज इत्यभिधीयते ॥'
Scanned by Gitarth Ganga Research Institute