________________
संगीतरत्नाकरः
[.श्रुतिस्वरध्रुवाश्रुतिषु लीनायामियत्ता ज्ञायते स्फुटम् । अतः परं तु रक्तिघ्नं न कार्यमपकर्षणम् ॥ २२ ॥
श्रुतिभ्यः स्युः स्वराः षड्जर्षभगांधारमध्यमाः । लोके शास्त्रे च चतुर्थ्यादिश्रुतिषु मयूरादिस्वरसंवादित्वेनाभिव्यक्ताः सिद्धाः । तेषां तदुक्तरीत्योत्कर्षणेन पञ्चम्यादिषु श्रुतिषु प्रापणे कृते तादृशानुरणनाभावान्मन्द्रमध्ययोरुत्तरोत्तरस्थानाक्रमणे तारमन्द्रव्यवस्थितेरपायाच्च यतो रक्तिघातः, अतः सारणाऽन्तरं न कर्तव्यमित्यभिसंधायोक्तम्-~-अतः परं त्विति ॥ -१९-२२ ॥
(सु०) द्वितीयसारणायां कृतायां यत्सिध्यति तदाह-श्रुतिद्वयेति । अस्यां चलवीणायां द्वितीयसारणायां कृतायां श्रुतिद्वयस्य लयादपकर्षाच्चलवीणायां वर्तमानौ गांधारनिषादौ ध्रुववीणागतयोषभधैवतयोः प्रविशत: । क्रमादिति । गांधार ऋषभं निषादो धैवतमित्यर्थः । तयोः प्रविशत इति तत्समाननादौ भवत इत्यर्थः । तृतीयसारणायां सिद्धं कथयति-तृतीयस्यामिति । सपयो: षड्जपञ्चमयोऋषभधैवतौ विशतः । ऋषभः षड्ज प्रविशति, धैवत: पञ्चमं प्रविशति । चतुझं तु सारणायां गध्यषड्जो मन्द्रनिषादं प्रविशति, मध्यमो गांधारं प्रविशति, पञ्चमो मध्यमं प्रविशति । उपसंहरति-श्रुतिद्वाविंशताविति । एवं सारणाचतुष्टयाच्छ्रतिद्वाविंशतौ ध्रुवाश्रुतिषु लीनायां सत्यां द्वाविंशतिरेव श्रुतय इतीयतैतावत्संख्याकत्वं ज्ञायते । द्वितीयसारणायां श्रुतिचतुष्टयलाभः, तृतीयायां षटतिलाभः, चतुर्थी द्वादशश्रुतिलाभः। ननु पुनरप्यपकषणं कर्तव्यम् । नेत्याह-अतः परमिति । अत: परमपकर्षणं न कार्यम् । कुतः ? यतो रक्ति नमिति । अतः परमपकर्षणे कृते स्वराणां रञ्जकत्वाभावात्स्वरत्वमेव नश्यति, 'स्वतो रञ्जयति श्रोतृचित्तं स स्वर उच्यते' इति वक्ष्यमाणत्वात् ।। -१९-२२ ॥
(क०) इत्थमियत्तया निश्चिताभ्यः श्रुतिभ्यः स्वराणां निप्पत्तिमाह---श्रुतिभ्यः स्युः स्वरा इति । चतसृभ्यस्तिसृभ्यो द्वाभ्यां च
Scanned by Gitarth Ganga Research Institute