________________
७७
-०रसा: ३]
प्रथमः स्वरगताध्यायः श्रुतिद्वयलयादस्यां चलवीणागतौ गनी ॥ १९ ॥ ध्रुववीणोपगतयो रिधयोविंशतः क्रमात् । तृतीयस्यां सारणायां विशतः सपयो रिधौ ॥ २० ॥ निगमेषु चतुझं तु विशन्ति समपाः क्रमात् ।
श्रुतिद्वाविंशतावेवं सारणानां चतुष्टयात् ।। २१ ॥ द्वितीयतृतीयचतुर्थ्यः सारणा: कर्तव्या इत्याह-एवमिति । प्रतिसारणं स्वराणां ततो ऽपि पुनरेकैकश्रुत्यपकर्षः कर्तव्यः ॥ -१७-१८- ॥
(क) द्वितीयादिपु सारणासु ज्ञेयं दर्शयति-श्रुतिद्वयेत्य दिना । अस्यां द्वितीयसारणायां चलवीणागतौ चलवीणायां म्वस्वोपान्त्यतन्त्रीस्थितौ गनी गांधारनिषादौ ध्रुववीणोपगतयोgववीणायां स्वम्वाधारश्रुतिस्थयो रिधयोऋषभधैवतयोः क्रमादृषभं गांधारो धैवते निषादश्च श्रुतिद्वयलयात्प्रातिस्विकश्रुतिद्वयपरित्यागाद्विशतो लीनौ भवतः । ध्वनिसाम्यादेकाकारतां भजत इति यावत् । एवं तृतीयचतुर्थसारणयोरपि स्वरान्तरप्रवेशो द्रष्टव्यः । ननु चतुर्थसारणायां मन्द्रषड्जस्य निषादे प्रवेश उच्यते ; तत्कथमुपपद्यते ? 'कार्या मन्द्रतमभ्वाना' इति षड्जादिमश्रुतेरारम्भात्तत्पूर्वध्वन्यसंभवेनोपान्त्यतन्त्र्यभावात । सत्यं ध्वन्यसंभवात्तन्व्यभावः ; तथा ऽपि मन्द्रम्वरसप्तकस्यावृत्तौ पड्जनिषादयोः संनिधानान्निषादाधारश्रुतेरुपान्त्यत्वं कल्पयित्वा प्रवेशः पर्यवस्यतीत्युपपन्नम् । अथ वा, स्थानान्तरावृत्तस्य तस्यैव षड्जम्य पूर्व निषादसंभवात्तस्मिन्प्रवेशो द्रष्टव्यः । सारणानां फलमाह-श्रुतिद्वाविंशताविति । यद्येवं स्यादेतदनावृत्तिमतानुसारेण सारणापञ्चकेनापि सप्तानामपि स्वराणामेकोनत्रिंशच्छ्रतीयत्तानिश्चयः कर्तु शक्यत इति । नैवम् । स्वरास्तावच्छ्रत्यनुरणनात्मकाः । ते च पड़जादयो
Scanned by Gitarth Ganga Research Institute