________________
संगीतरत्नाकरः
[• श्रुतिध्रुववीणास्वरेभ्यो ऽस्यां चलायां ते स्वरास्तदा ॥ १८ ॥
एक त्यपकृष्टाः स्युरेवमन्या ऽपि सारणा' । चलवीणायां सारणां विदधाति-तस्यामिति । तन्त्रीस्तु सारयेदिति । तुशब्दो भिन्नक्रमः । तस्यां त्विति योजना ध्रुवातो वैषम्यप्रदर्शनार्था । सारयेत्सारणां कुर्यात् ; स्वस्वतन्त्रीस्थितान्स्वरांस्तत्तच्छृतिस्थानात्प्रच्याव्य श्रुत्यन्तराणि तन्त्रीः प्रापयदित्यर्थः ॥ सारयेदित्यनेनानियमेन श्रुत्यन्तरप्रापणे प्राप्ते, प्रथमादिसारणासु श्रुत्यन्तरनियममाह -स्वोपान्त्येति । तस्यां प्रथमायां सारणायाम् । ननु श्रुत्यन्तरप्राप्त्या स्वरान्तरत्वं किं न स्यादित्यत आह–ध्रुववीणाम्वरेभ्य इति । ते स्वरास्तदैकश्रुत्यपकृष्टाः स्युरित्यत्र त इति ध्रुवायामिव चतुःश्रुतिकत्वादिलक्षणानां षड्जादीनां परामर्शाच्छ्रत्यन्तरप्राप्त्या म्वरान्तरत्वप्राप्तावप्येकश्रुत्यपकर्षेण तेषामेव नीचत्वमात्रप्रतीतेविशेषलाभाभावात्स्वरान्तरत्वं न स्यादित्यर्थः । उक्तं प्रकारं सारणाऽन्तरे ऽप्यतिदिशति--एवमिति । पूर्वत्र सारणायामेकश्रुत्यपकृष्टान्स्वरान्प्रकृतिं कृत्वा तेषां ततो ऽप्युपान्त्यतन्त्र्यानयनमिहान्यशब्दार्थः ॥ -१७-१८- ॥
___ (सु०) अत्र वीणाद्वय एका चलवीणैका ध्रुववीणा । यस्यां स्वरा: स्वस्थानं परित्यज्यापकृष्यन्ते सा चलवीणा, यस्यां तु नापकृश्यन्ते सा ध्रुववीणा। श्रुतिनिश्चयार्थ चलवीणायां यत्कर्तव्यं तदाह-तस्यामिति । तस्यां चलवीणायां तन्त्रीः सारयेदपकषयेत् । प्रथमसारणाप्रकारमाह-स्वोपान्त्येति । तस्यां चलवीणायां सप्तापि स्वरा यत्र स्थापितास्ता अन्यास्तन्त्र्यः, तत्समीपवर्तिन्यो ऽपकृष्टा उपान्त्याः , तासु सप्त स्वरा आनेया: स्थापनीया: । एवं प्रथमसारणायां कृतायां किं स्यात् ? तदाह-ध्रुववीणेति । अस्यां चलायां चलवीणायां ते षड्जादय: स्वरा ध्रुववीणास्वरेभ्यस्तदपेक्षयैकश्रुत्या ऽपकृष्टाः स्युः । एवमेव
1.मन्याश्च सारणा:
Scanned by Gitarth Ganga Research Institute