________________
-०रसाः ३]
प्रथमः स्वरगताध्यायः चलवीणा द्वितीया तु तस्यां तन्त्रीस्तु सारयेत् ॥ १७ ॥ स्वोपान्त्यतन्त्रीमानेयास्तस्यां सप्त स्वरा बुधैः ।
रणदा चैव गम्भीरा दीर्घतारा च नादिनी । मन्द्रजा सुप्रसन्ना च निनदा मन्द्रसप्तके ॥ नादान्ता निष्कला गूढा सकला मधुरा गली । एकाक्षरा भृङ्गजाती रसगीती सुरक्षिका ॥ पूर्णा ऽलंकारिणी चैव वांशिका वैणिका तथा । त्रिस्थाना सुस्वरा सौम्या भाषाऽङ्गी वार्त्तिका तथा ॥ संपूर्णा च प्रसन्ना च सर्वव्यापनिका तथा । द्वाविंशतिः समाख्याताः श्रुतयो मध्यसप्तके || ईश्वरी चैव कौमारी सवराली तथा परा।। भोगवीर्या मनोरामा सुस्निग्धा च तथा परा || दिव्याङ्गा ऽथो सुललिता विद्रुमा च तथा परा । महार्का शङ्किनी राका लज्जा चैव तथा परा ॥ काली सूक्ष्मा ऽतिसूक्ष्मा च पुष्टा चैव सुपुष्टिका । विस्पष्टा काकली चैव कराली च तथा परा ।।
विस्फोटान्तर्भदिनी च इत्येतास्तारसप्तके ।' इति । श्रुतिभ्यः स्वरोत्पत्तिप्रकारं कथयति-वीणाद्वय इति । वीणाद्वये स्वराः स्थापनीयाः । तत्र चतस्रः श्रुतयो यस्य संबन्धिन्यः स चतुःश्रुतिः षड्जस्तुरी. यायां चतुझं तन्त्र्यां स्थाप्यः । त्रिश्रुतिर्ऋषभः सप्तम्याम् | द्विश्रुतिधारो नवम्याम् । चतुःश्रुतिमध्यमस्त्रयोदश्याम् । चतुःश्रुतिः पञ्चमः सप्तदश्याम् । त्रिश्रुतिधैवतो विंशतितम्याम् । द्विश्रुतिर्निषादो द्वाविंश्याम् ॥ -१०-१६॥
(क०) अत्र वीणयोः । एका ध्रुवा भवेदिति । अनयोश्चलत्वध्रुवत्वे सारणाऽन्वयव्यतिरेकानुविधायिनी । द्वितीयेति । ध्रुवत्वेन कल्पिताया अन्येत्यर्थः । अत्र तुशब्दो व्यपदेशान्तरपरिग्रहार्थः । श्रुतिगतेयत्तापरिज्ञानार्थ
Scanned by Gitarth Ganga Research Institute