________________
संगीतरत्नाकरः
[० श्रुति
(सु० ) दृष्टान्तेन विनैते नादविशेषा दुरवबोधाः, कण्ठे ऽपि दर्शयितुमशक्याः ; तस्माद्वीणाद्वंद्वे दृष्टान्तकथनं प्रतिजानीते - व्यक्तय इति । ताः प्राकटयेन दर्शयितुमित्यर्थः । तदुक्तं संगीतसमयसारे
७४
'ते तु द्वाविंशतिर्नादा न कण्ठेन परिस्फुटाः । शक्या दर्शयितुं तस्माद्वीणायां तन्निदर्शनम् || '
इति । प्रतिज्ञातमर्थ कथयति - द्वे वीणे इति । सदृशौ समाने । आकारसाम्यं नात्रोपयुज्यत इत्याह-यथा नादः समान एव भवतीति । तदुक्तम्
'द्वे वीणे तुलिते कार्ये समस्तावयवैस्तथा । एकवीणेव भासेते यथा द्वे अपि शृण्वताम् ॥
ܕ
इति । तयोः प्रत्येकं द्वाविंशतिस्तन्त्र्यः स्थापनीया: । तास्वाद्या मन्द्रतमध्वाना कर्तव्या । स मन्द्रतमो यस्माद्धीनो मन्द्रो ऽन्यो नादो रञ्जको न निष्पद्यते । द्वितीया तस्याः सकाशान्मना किंचिदुच्चध्वनिः । किंचिदित्यनेनैवोक्तमर्थं विशदयति – मध्ये ध्वन्यन्तराश्रुतेरिति । यथा मध्ये विसदृशं ध्वन्यन्तरं नोत्पद्यते तथा नैरन्तर्य विधेयम् । तदुक्तम्
'द्वितीया तु ततस्तीव्रध्वनिस्तन्त्रार्विधीयते । यथा यथा तयोर्मध्ये न तृतीया ध्वनिर्भवेत् ॥ '
इति । तास्तन्त्र्यो ऽधोऽधः स्थातस्तीवनादा भवन्ति । ताभ्यस्तन्त्रीभ्यो जाती नादः श्रुतिरित्युच्यते । श्रुतेः प्रमाणमुक्तं मतङ्गेन- ननु श्रुतेः किं मानम् ? उच्यते, पञ्चमस्तावद् ग्रामद्वयस्थो लोके प्रसिद्ध: । ' तस्योत्कर्षापकर्षाभ्यां मार्दवादायतत्वाद्वा यदन्तरं तत्प्रमाणा श्रुतिरिति । स्थानत्रये षट्षष्टिसंख्याकानां श्रुतीनां नामान्युक्तानि संगीतसमयसारे
'मन्द्रा चैवातिमन्द्रा च घोरा घोरतरा तथा ।
मण्डना च तथा सौम्या सुमनाः पुष्करा तथा ॥ शङ्खिनी चैव नीला च उत्पला चानुनासिका । घोषावती लीननादा आवर्तन्यपि चापरा ॥
1
तस्य श्रुत्युत्कर्षापकर्षाभ्यां.
Scanned by Gitarth Ganga Research Institute