SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ७३ -०रसा: ३] प्रथमः स्वरगताध्यायः अष्टादश्यास्तृतीयायां निषादो द्विश्रुतिस्ततः ॥ १६ ॥ एकविंश्या द्वितीयायां वीणैका त्र ध्रुवा भवेत् । इति श्रुतीनामानन्त्यं दर्शित मिति । अस्मिन्पक्षे रणनानुरणनात्मकयोः श्रुतिस्वरयोर्भेदाङ्गीकारे ऽप्यनुरणनरूपाणामपि ध्वनीनां श्रुतित्वमभिधायोभयेषामपि वीचीतरङ्गन्यायेनोत्पद्यमानानां तेषामतिसूक्ष्मभागकल्पनया प्रतिध्वन्यवयवभूतध्वनिबहुत्वविवक्षया ऽऽनन्त्यं दर्शितम् । तदनुपपन्नमिति मन्तव्यम् । यद्यपि श्रवणयोग्यस्य ध्वनेरिन्द्रियग्राह्यत्वाक्षिप्तेन सावयवत्वेन त्रसरेणुवदवयवाः सन्ति, तथा ऽपि तेषां श्रोत्रप्रत्यक्षमूलेनानुमानेनार्थापत्त्या वा ऽन्यतरेणैव त्रसरेणुगतपरमाणुवद्गम्यतया श्रोत्रग्राह्यत्वाभावात् . स्वतः स्वराभिव्यक्तिहेतुत्वाभावेनाश्रुतित्वादिति । द्वाविंशतिश्रुतिपक्षे षट्पष्टिश्रुतिपक्षे च यद्यपि श्रुतिस्वरयोर्भेदाङ्गीकारः समान एव, तथा ऽपि द्वाविंशतिश्रुतिपक्षे द्वाविंशतिः श्रुतय एव मन्द्रस्थाः स्थानान्तरयोरपि द्विगुणद्विगुणत्वेनावय॑न्त इति । पट्पष्टिश्रुतिपक्षे तु तावत्य एव श्रुतयः स्थानत्रये ऽप्यनावृत्ताः परस्परं भिन्ना इति च वैषम्यम् । तत्रानावृत्तिपक्षस्वीकारे षड्जादीनामपि स्वराणामावृत्त्यभावान्मध्यतारस्थाश्चतुर्दश स्वराः पृथग्व्यपदेशभाजो भवेयुः । नैव तथा व्यवहारः । अत एव मतङ्गादिदर्शितेषु नवसु पक्षेषु द्वाविंशतिश्रुतिपक्षमेव रणनानुरणनात्मना साक्षादनुभूयमानश्रुतिस्वरभेदानपहवेनावृत्त्या सप्तानामेव स्वराणां गुणभिन्नानां व्यवहारोपयोगित्वसिद्धेश्च सारतमं निश्चित्य निःशङ्को वीणयोर्निदर्शितानां तासां द्वाविंशतिश्रुतीनां मध्ये चतुर्थीप्रभृतिषु शास्त्रानुसारेण पूर्वोत्तरावधिप्रदर्शनपूर्वकं षड्जादिसप्तस्वरस्थापनं विदधाति-चीणाद्वय इत्यादिना । चतुःश्रुतिरिति । स्वाभिव्यक्तिकरणत्वेन चतस्रः श्रुतयो यस्येति स तथोक्तः । एवं त्रिश्रुतिरित्यादौ द्रष्टव्यम् ॥ -१०-१६ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy