________________
७२
संगीतरत्नाकरः
[ श्रुतिस्वरअष्टमीतो द्वितीयायां मध्यमो ऽथ चतुःश्रुतिः । दशमीतश्चतु• स्यात्पञ्चमो ऽथ चतुःश्रुतिः ॥ १५ ॥ चतुर्दशीतस्तुर्यायां धैवतस्त्रिश्रुतिस्ततः । 'द्विश्रुतिस्त्रिश्रुतिश्चैव चतुःश्रुतिक एव च ।
स्वरप्रयोगः कर्तव्यो वंशच्छिद्रगतो बुधैः ॥' इति । भरतेनाप्युक्तम्
'द्विकत्रिकचतुष्कास्तु ज्ञेया वंशगताः स्वराः । कम्पमानार्धमुक्ताश्च व्यक्तमुक्ताङ्गुलिस्वराः ॥
इति तावन्मया प्रोक्ताः समीच्यः श्रुतयो नव ।' इति । एतानि षण्मतानि स्वरश्रुत्योरभेदमङ्गीकृत्य प्रवर्तितानीति मन्तव्यम् । तानि त्वभिव्यङ्गयत्वाभिव्यञ्जकत्वाभ्यां साक्षाद्भिन्नरूपयोः स्वरश्रुत्योर्भेदापहवान्न समीचीनानि । अत्र केचिन्मीमांसामांसलितधियो धीरा द्वाविंशति श्रुतीर्मन्यन्ते । केचित्पुनः षट्षष्टिभेदभिन्नाः श्रुतय इति वदन्ति । अन्ये पुनरानन्त्यं वर्णयन्ति श्रुतीनाम् । तथा चाह कोहल:
'द्वाविंशति केचिदुदाहरन्ति श्रुतीः श्रुतिज्ञान विचारदक्षाः ।
षट्पष्टिभिन्नाः खलु केचिदासामानन्त्यमन्ये प्रतिपादयन्ति ॥' इति । तत्र,
'आनन्त्यं हि श्रुतीनां च सूचयन्ति विपश्चितः । यथा ध्वनिविशेषाणामानन्त्यं गगनोदरे ॥ उत्तालपवनोद्वैलजलराशिसमुद्भवाः । इयत्तां प्रतिपद्यन्ते न तरङ्गपरंपराः ॥'
Scanned by Gitarth Ganga Research Institute