________________
-०रसाः ३] प्रथमः स्वरगताध्यायः
स्थाप्यस्तन्त्र्यां तुरीयायामृषभस्त्रिश्रुतिस्ततः । पञ्चमीतस्तृतीयायां गांधारो द्विश्रुतिस्ततः ॥ १४ ॥ 'श्रवणेन्द्रियग्राह्यत्वाद् ध्वनिरेव श्रुतिर्भवेत् । सा चैका द्विविधा ज्ञेया स्वरान्तरविभागतः ॥ नियतश्रुतिसंस्थानाद् गीयन्ते सप्त गीतिषु ।
तस्मात्स्वरगता ज्ञेयाः श्रुतयः श्रुतिवेदिभिः ।।' शुद्धस्वररूपा इत्यर्थः ।
'अन्तरस्वरवर्तिन्यो ह्यन्तरश्रुतयो मताः ।' विकृतस्वररूपा इत्यर्थः । प्रयोगबहुलत्वापेक्षया श्रुतय इति बहुवचननिर्देशः ।
‘एतासामपि वैस्वर्य क्रियाग्रामविभागतः ॥' इति । केचिस्थानत्रययोगात्रिविधां श्रुतिं मन्वते । अन्ये विन्द्रियवैगुण्यात्रिविधां श्रुतिं मन्यन्ते । इन्द्रियवैगुण्यं च त्रिविधं सहजं दोषजमभिधातजं चेति । अत्रेन्द्रियं मनः । तत्र सत्त्वगुणयुक्तं सहजम् , रजस्तमोयुक्तं दोषजम् , अम्लादिरसोपहतमभिघातजमित्यर्थः । अपरे तु वातपित्तकफसंनिपातभेदभिन्नां चतुर्विधां श्रुतिं प्रतिपेदिरे । तथा चाह तुम्बुरु:
'उच्चैस्तरो ध्वनी रूक्षो विज्ञेयो वातजो बुधैः । गम्भीरो घनलीनस्तु ज्ञेयो ऽसौ पित्तजो ध्वनिः ॥ स्निग्धश्च सुकुमारश्च मधुरः कफजो ध्वनिः ।
त्रयाणां गुणसंयुक्तो विज्ञेयः संनिपातजः ॥' इति । एते तु शब्दभेदत्वेन वक्ष्यन्ते । अपरे तु वेण्वादयो मुनयो नवविधां श्रुतिं मन्यन्ते । तथा हि
Scanned by Gitarth Ganga Research Institute