SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ___ संगीतरत्नाकरः [.श्रुतिस्वरअधराधरतीव्रास्तास्तज्जो नादः श्रुतिर्मतः । वीणाद्वये स्वराः स्थाप्यास्तत्र षड्जश्चतुःश्रुतिः ॥ १३ ॥ तन्व्युत्पन्नयोर्मध्ये ध्वन्यन्तराश्रुतेर्ध्वन्यन्तरस्य पूर्वोत्तरश्रुतिविलक्षणस्य पूर्वश्रुतेः किंचिदुच्चस्योत्तरश्रुतेः किंचिन्नीचस्य चान्यध्वनेरश्रुतिरश्रवणम् । अश्रुतेरिति हेतौ पञ्चमी । मध्यगतध्वन्यन्तराश्रवणं निमित्तीकृत्य श्रुत्योर्निरन्तरता यथा स्यात्तथा तन्त्रीः किंचिद् दृढीकरणेन मनागुच्चध्वनिः कार्येत्यर्थः । अत्र नैरन्तयं ध्वन्योरेवोक्तं न तु तन्त्र्योर्दण्डादिप्रदेशस्थयोः । अतस्तन्त्र्योर्दण्डादिषु मध्ये ऽवकाशो दृश्यत इति तत्र ध्वन्यन्तरसंभवो न शङ्कनीयः । द्वितीयेत्युपलक्षणम् । तेन तृतीयाऽऽदयो ऽपि द्वितीयाऽऽद्यपेक्षया किंचित्किंचिद् दृढीकरणेन मनागुच्चध्वनयः कार्या इत्यर्थः । एवं कृते तास्तन्त्र्यो ऽधराधरतीवा उच्चोच्चध्वनयो भवन्ति । यथा शरीरे श्रुतय उत्तरोत्तरोच्चा उत्पद्यन्ते तथा वीणायामधराधरोच्चा उत्पद्यन्त इति बोद्धव्यम् । तज्जः, तासु तन्त्रीप्वाहत्योत्पन्नो नादः श्रुतित्वेन मतः । अत्र श्रुतिशब्दनिरुक्तिपूर्वकं श्रुत्येकत्वादिविषयविकल्पे मतङ्गो मतभेदानदर्शयत् । तद्यथा 'श्रवणार्थस्य धातोः क्तिन्प्रत्यये च सुसंश्रिते । श्रुतिशब्दः प्रसाध्यो ऽयं शब्दज्ञैः कर्मसाधनः ॥' श्रूयत इति श्रुतिः। सा चैका ऽनेका वा । एकैव श्रुतिरिति । तद्यथा-तत्रादौ तावदेहाकाशपवनसंयोगात्पुरुषप्रयत्नप्रेरितो ध्वनि भेरूद्धमाकाशदेशमाक्रा - मन्धूमवत्सोपानपदक्रमेण पवनेच्छया ऽनेकधा ऽऽरोहन्नन्तर्भूतपूरणप्रत्ययार्थतया चतुःश्रुत्यादिभेदभिन्नः प्रतिभासत इति मामकीनं मतम् । अन्ये तु पुनर्द्विप्रकारां श्रुतिं मन्यन्ते । कथम् ? स्वरान्तरविभागात् । तथा चाह विश्वावसुः Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy