SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ -०रसाः ३] प्रथमः स्वरगताध्यायः व्यक्तये कुर्महे तासां वीणाद्वंद्वे निदर्शनम् ॥ १० ॥ द्वे वीणे सदृशौ कार्ये यथा नादः समो भवेत् । तयोविंशतिस्तन्त्र्यः प्रत्येकं तासु चादिमा ॥ ११ ॥ कार्या मन्द्रतमध्वाना द्वितीयोच्चध्वनिर्मनाक् । स्यान्निरन्तरता श्रुत्योर्मध्ये ध्वन्यन्तराश्रुतेः ॥ १२ ॥ इति मत्वा द्वाविंशतिरित्युक्तवान् । संख्यानियमे कारणमाह---हृदीति । हृदि, ऊर्ध्वनाडी सुषुम्णा, तत्संलग्नाः, तिरश्चयस्तियक्थिता द्वाविंशतिर्नाड्यः । तासु मारुतसंबन्धात्तावन्त एव नादा उत्पद्यन्ते । तेषु विरुद्धधर्मसंसर्ग दर्शयतिउच्चेति । उत्तरोत्तरमुच्चोच्चतरतायुक्ताः । प्रथमो नादो हीनतमः, ततो ऽनन्तरमुच्चः, ततो ऽनन्तरमुच्चतरः, ततो ऽनन्तरमुच्चतम इत्यर्थः । हृदय उक्तं श्रुत्युत्पत्तिप्रकारं कण्ठशीर्षयोरतिदिशति—एवमिति ॥ ८-९- ॥ (क०) शरीरे प्रतिस्थानमुक्तसंख्याकनाडीसंनिवेशस्य तत्र श्रुत्युत्पादस्य च परोक्षत्वात्तत्तत्सद्भावे संदेहः स्यादिति तन्निरासार्थ प्रत्यक्षतः संवादयितुं प्रतिज्ञाय निर्दिशति-व्यक्तय इत्यादिना । सदृशौ सदृशाकारे । यथा नादः समो भवेदिति । यथा सदृशाकारयोः कृतयोर्नादः समो भवेत्तथा सदृशौ कार्ये । नादसाम्ये लाघवादिविशिष्टाकारसाम्यं निमित्तमित्यर्थः । तासु चेति । वीणयोः प्रत्येकं द्वाविंशतौ तन्त्रीषु । चकारो द्वितीयवीणागततन्त्रीसमुच्चयार्थः । आदिमा प्रथमा तन्त्रीः । कञपेक्षया संनिहितेत्यर्थः । मन्द्रतमध्वाना ऽतिमन्द्रस्वना ; उत्तरोत्तराऽपेक्षया पूर्वपूर्वस्या मन्द्रत्वे संभवत्यपि सर्वापेक्षयेयं मन्द्रेति तमप्प्रयोगः । अतिमन्द्रस्वनत्वं च तन्व्या अतिशिथिलीकरणेन भवति । ततो ऽपि शिथिलीकरणे यथा ऽनुरणनध्वन्यसंभवस्तथा कार्येत्यर्थः । द्वितीया तन्त्रीर्मनागुच्चध्वनिः कार्या । मनागुच्चध्वनित्वस्यैव व्यवस्थापकम्-स्यान्निरन्तरतेति । श्रुत्योः पूर्वोत्तर Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy