SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ६८ संगीतरत्नाकरः [ श्रुतिस्वरउच्चायास्तृतीया किंचिदुच्चेति तरप्प्रयोगः । एवं तृतीयाचतुर्थ्यादिषु श्रुतिषु द्वयोर्द्वयोर्द्रष्टव्यमिति ॥ एवं प्रथमस्थानोक्तमर्थमुत्तरोत्तरस्थानद्वये ऽप्यतिदिशति-एवं कण्ठ इति ।। ८-९- ॥ (सु०) तस्य नादस्य भेदान्कथयति-तस्येति । तस्य नादस्य द्वाविंशतिसंख्याका भेदा भवन्ति । ते च श्रुतिसंज्ञयोच्यन्ते । तत्र व्युत्पत्तिं कथयति-श्रवणादिति । श्रूयन्त इति श्रुतय इत्यर्थः । तथा चोक्तं मतङ्गेन 'श्रवणार्थस्य धातो: क्तिन्प्रत्यये च सुसंश्रिते । श्रुतिशब्दः प्रसाध्यो ऽयं शब्दज्ञैः कर्मसाधनः ॥' इति । तत्र श्रुतेरेकत्वानेकत्वविषये महती विप्रतिपत्तिः । देहाकाशपवनसंयोगात् पुरुषप्रयत्नप्रेरितो ध्वनि मेरूद्धमाकाशदेशमाक्रामन्धूमवत्सोपानपदावस्थानं पवनेच्छया ऽनेकधा ऽऽरोहन्नन्तर्भूतपूरणप्रत्ययार्थतया चतुःश्रुतित्वादिभेदभिन्नो ऽवभासत इति मतङ्गः । विश्वावसुस्तु द्वैविध्यं श्रुतेरुक्तवान् । तथा चाह 'श्रवणेन्द्रियग्राह्यत्वाद्धनिरेव श्रुतिर्भवेत् ।। सा चैका द्विविधा ज्ञेया स्वरान्तरविभागतः ॥ नियतश्रुतिसंस्थातो गीयन्ते सप्त गीतिषु । तस्मात्स्वरगता ज्ञेयाः श्रुतयः श्रुतिवेदिभिः ॥ अन्तरस्वरवर्तिन्यो ह्यन्तर श्रुतयो मताः ।' इति । केचित्स्थानत्रययोगाच्छ्रुतीनां विध्यं प्रतिपद्यन्ते । केचिद् द्वाविंशति श्रुतीराहुः । केचित्षट्षष्टिम् । अन्य आनन्त्यम् । तथा चाह कोहल: 'द्वाविंशति केचिदुदाहरन्ति श्रुतीः श्रुतिज्ञानविचारदक्षाः । षट्षष्टिभिन्नाः खलु केचिदासामानन्त्यमन्ये प्रतिपादयन्ति ॥' इति । तत्र मन्दतीव्रतीव्रतरादितारतम्याख्यविरुद्धधर्मसंसर्गस्य विद्यमानत्वाखूदस्तावत्सिद्धः । तदुक्तम्-'अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्च' इति । मन्द्रमध्यतारस्थानेष्वपि ता एवैता: श्रुतयस्त एवामी स्वरा इति प्रत्यभिज्ञानाद्भेदस्यासिद्धिः, तस्माद् द्वाविंशतिश्रुतिपक्ष एव समीचीन Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy