________________
-०रसा: ३] प्रथमः स्वरगताध्यायः
तस्य द्वाविंशतिर्भेदाः श्रवणाच्छ्रतयो मताः । हृयूद्धनाडीसंलग्ना नाडयो द्वाविंशतिर्मताः ॥ ८ ॥ तिरश्च्यस्तासु तावत्यः श्रुतयो मारुताहतेः । उच्चोच्चतरतायुक्ताः प्रभवन्त्युत्तरोत्तरम् ॥ ९ ॥ एवं कण्ठे तथा शीर्षे श्रुतिद्वाविंशतिर्मता।
द्वाविंशतिविधो मन्द्रो ध्वनिः संजायते हृदि । यथोत्तरमसौ नादो वीणायामधरोत्तरम् ॥ स एव द्विगुणो मध्यः कण्ठस्थाने यथाक्रमम् । स एव मस्तके तारः स्यान्मध्याद् द्विगुणः क्रमात् ॥ इति स्वरगता ज्ञेयाः श्रुतयः श्रुतिवेदिभिः ।
अन्तरस्वरवर्तिन्यो ह्यन्तरश्रुतयो मताः ॥' इति ॥ ७॥
(क०) स्थानान्युक्त्वा क्रमप्राप्ताः श्रुती दभेदत्वेनाह-तस्येति । तस्यैकैकस्थानाविर्भूतस्य नादस्य । सामान्यविवक्षयैकत्वम् । द्वाविंशतिभेदा अभिव्यञ्जकनाडीभेदवशात् । श्रवणाच्छ्रवणयोग्यत्वात् । श्रुतयः, श्रूयन्त इति व्युत्पत्त्या । एतदुक्तं भवति-यद्यपि श्रवणयोग्यत्वमनुरणनात्मनः स्वरतानादिरूपेण दीर्घदीर्घस्यापि ध्वनेर्विद्यते, तथा ऽप्यत्र मारुताद्याहत्यनन्तरोत्पन्नप्रथमक्षणवर्तिश्रवणमात्रयोग्यध्वनेरेव श्रुतित्वमिति । तत्र मन्द्रस्थाने श्रुतिभेदजनकनाडीनां संनिवेशमाह-हृदीति । ऊर्ध्वनाड्याविडापिङ्गले, तयोः संलग्ना नाड्यः सच्छिद्रा नाडिकाः, तासु नाडीपूत्तरोत्तरमुच्चोच्चतरतायुक्ताः । उच्चा चोच्चतरा चोच्चोच्चतरे, तयोर्भावावुच्चोच्चतरते, ताभ्यां युक्ताः श्रुतयः प्रभवन्ति । अयमर्थः-मन्द्रस्थाने प्रथमनाड्युत्पन्ना श्रुतिरतिनीचा । तदपेक्षया द्वितीयातृतीययोः श्रुत्योरुच्चोच्चतरते । तत्र द्वितीयाया
Scanned by Gitarth Ganga Research Institute