________________
६६
संगीतरत्नाकरः
व्यवहारे त्वसौ त्रेधा हृदि मन्द्रो ऽभिधीयते । कण्ठे मध्य मूर्ध्नि तारो द्विगुणश्चोत्तरोत्तरः ॥ ७ ॥
[० स्थानश्रुति
आदिवृद्धौ च नाद इति रूपं सिध्यति । मतङ्गेन तु नद्यत इति नाद इति व्युत्पत्तिर्दर्शिता । तथा चोक्तम्
' नकारं प्राण इत्याहुर्दकारश्चानलो मतः । नादस्य हि पदार्थोऽयं समीचीनो मयोदितः । नादो ऽयं नदतेर्धातोः स च पञ्चविधो भवेत् ॥' इति ॥ ३-६ ॥
(क०) नामान्तराणि स्वरूपभेदं चाह - - व्यवहारे त्विति । व्यवहियत इति व्यवहारो गीतम्, तस्मिन् । तुः पक्षं व्यावर्तयति । नाभ्यास्यस्थानयोर्नैवमित्यर्थः । द्विगुणश्चोत्तरोत्तर इति । उत्तरोत्तरः, मन्द्रादुत्तरो मध्यो मध्यादुत्तरस्तार इति यावत् । द्विगुणः, गुण उच्चारणप्रयत्नः, गुणस्येति द्विगुणः । अयमर्थः - मन्द्रस्थानस्थितात्षड्जादिव्यपदेशवतो नादान्मध्यस्थानस्थितः स एव षड्जादिव्यपदेशवांस्ततोऽपि द्विगुणप्रयत्नसाध्यत्वाद् द्विगुण इति । पूर्वस्थानस्थितात्क्रमेणारोहे सत्यष्टमः स्वर इति यावत् । अत्रासाविति नादसामान्य निर्देशे ऽपि व्यवहारानुपयोगात्स्वररूपनादाद् द्वैगुण्यं विवक्षितम् । श्रुतिरूपनादविवक्षायां तु त्रयोविंशो द्विगुणः ॥ ७ ॥
(सु० ) त्रिविधस्य नादस्य व्यवहार योग्यत्वं कथयति — व्यवहारे त्विति । व्यवहारे गानव्यवहारे, घटपटाद्यभिधानव्यवहारे तु मुखोत्पन्नस्यापि ध्वनेरुपयोगित्वात् । हृदि य उत्पद्यते नादः स मन्द्र इति कथ्यते ; यस्तु कण्ठ उत्पद्यते स मध्यः ; यस्तु मूर्ध्निस तारः । एषां मानं कथयति --- द्विगुण इति । यावान्मन्द्रस्ततो द्विगुणो मध्यः, यावान्मध्यस्ततो द्विगुणस्तारः । तदुक्तं संगीतसमयसारे' त्रीणि स्थानानि हृत्कण्ठशिरांसीति समासतः । एकैकमपि तेषु स्याद् द्वाविंशतिविधायुतम् ॥
Scanned by Gitarth Ganga Research Institute