________________
सङ्गीताध्याये चतुर्थः पादः ।
सुसम्प्रदायो गीतज्ञैर्गीयते गायनाग्रणीः । इत्युत्तमस्तु विज्ञेयो गीतज्ञः प्रतिपादितः ॥ ३८ ॥ गुणैः कतिपयैर्हीनो निर्दोषो मध्यमोत्तमः ( मतः १ ) । महामाहेश्वरेणोक्तः सदोषो गायकाधमः ॥ ३९ ॥ शिक्षाकारोऽनुकारश्च रसिको रञ्जकस्तथा ।
भावकश्चेति विज्ञेया गायकाः पञ्चधा जगुः (१) ॥ ४० ॥ व्यक्तं पूर्ण प्रसन्नं च सुकुमारमलङ्कृतम् ।
समं सुरक्तं लक्ष्णं च निकृष्टं मधुरं तथा ॥ ४१ ॥ दिश्यैते स्युर्गुणानं ते (१) तत्र वक्ता (व्यक्तः ) स्फुटखरः । प्रकृतिः श्रुतयथोक्तं छन्दोरागपदैः खरैः ॥ ४२ ॥ सुसम्पूर्ण च पूर्णाङ्गं प्रसन्नं प्रकटार्थकम् । सुकुमारं कण्ठभवं त्रिस्थानोक्तमलङ्कृतम् ॥ ४३ ॥ खरवर्णलयस्थानं स्वय (सम १ ) मित्युच्यते बुधैः । सुरक्तं वल्लकीवंशकण्ठोत्थान्येकतागुणम् (१) ॥ ४४ ॥ : मीचोचधृतिमध्यादौ लक्ष्णता लक्ष्णउ ( मु ) च्यते । उचैरुधारणादुक्तं निकृष्टं भरतादिभिः ॥ ४५ ॥ मधुरं धुर्यलावण्यं पूर्ण जनमनोहरम् ।
दृष्टं लोके न शास्त्रेण श्रुतिकालविरोधि च ॥ ४६ ॥ येनैरुकं ( 2 ) - कलाबाचं गतश्रममधोदकम् । . ग्राम्यं संदिग्धमित्येवं दशधानी तु दुष्टता ॥ ४७ ॥ एवं सङ्गीतशास्त्रज्ञैः कथिता लोकविश्रुताः ।
इति गीतदोषाः ।
षड्डु ऋषभगान्धारौ मध्यमः पञ्चमस्तथा ॥ ४८ ॥ धैवतश्च निषादश्च खराः सप्त प्रकीर्तिताः । षड्जादिखरसंमिश्रं गानं च परिकीर्तितम् ॥ ४९ ॥
१ 'भावुकचेति गीतज्ञाः पश्चधा गायनं जगुः' इति सङ्गीतरत्नाकरे ।
२५