________________
२२६
10
नृ०२० को०-उल्लास ४, परीक्षण ४ [गौण्डलीविधिः शुद्धैश्चाप्यथ रूपकै रुचिवशात्तैर्गीयमानैश्चिरं
पात्रं नैकविधं विधाय निपुणं नृत्यं ततः संत्यजेत् । रङ्गे यत्र न वादयन्ति गजरान् पश्चाच ते वादकाः
खण्डं तूपशमाभिधं खलु तदा पात्रं पदे प्राविशेत् ॥ ४८ उक्तत्थं किल पद्धतिः परिपडि प्रोच्यते तद्विवां - वृन्दैः साखिलराजराजिमुकुटालङ्कारहीरेण हि । वाद्यं चासमहस्तमत्र निगदन्त्येके प्रवेशात् पुरः
पाटेर्वा समहस्तकादिभिरिह स्यात् सर्वतोऽथेष्टतः॥ ४९ स्थानं वा समपादमत्र निगदन्त्येके प्रवेशे बुधाः .. केचित् केवलयोः प्रयोगमभणन् तं गीतवाद्यानुगम् । गीतादेरिह वाञ्छितैः परमसावेकैकशः कैश्चनेत्येवं पद्धतिरीरिता सुविमला शुद्धा त्रिधा भूभृता ॥ ५०
॥ इति शुद्धपद्धतिः॥
• [ गौण्डलीविधिः।] गीतः सालगसूडैश्चै डस्थैः] प्रबन्धैश्च ध्रुवादिभिः । लास्याङ्गैः केवलैरेव तथाङ्गैरपि कोमलैः । वाद्यप्रबन्धः कठिनैः शुद्धैरेलादिभिर्विना । स्वयं नृत्यति यत्पात्रं स्वयं गायति च स्फुटम् । वादयेत् त्रिवली वाद्यं स्वयं तद्गौण्डली विदुः॥ स्कन्धदेशे स्त्रिया वाद्यं ग्राम्यतासूचकं यतः। अतोऽस्य वादनं केचित् तद्विदो नैव मन्वते । गायेच्छारीरबुद्धया सा मूकत्वस्य जिहीर्षया ॥ कर्णाटदेशसंभूतं तस्या मण्डनमिष्यते। आश्रित्य गौण्डलीलक्ष्म तन्ननिमिहोदितम् । अत्र या पद्धतिः प्रोक्ता सैवोक्ता गौण्डलीविधिः ॥ देशी पद्धतिरेवेयं प्रोच्यते तत्क्रमोऽधुना। कर्णाटालहतियुताः स्युरस्मिन् सांप्रदायिकाः॥ आतोचजातमत्रापि समनादं स्मृतं बुधैः । एकताल्या पादयेयुरथ मेलापकं ततः ॥ येन केनापि तालेन गजरे वादिते सति ।
15
80