________________
चतुर्थोल्लासे चतुर्थं परीक्षणम् ।
[पात्रलक्षणम् ।] पात्रस्य लक्षणं रेखा गुणा दोषाश्च मण्डनम् । लक्षणं संप्रदायस्य गुणदोषाश्च तस्य च ॥ विशुद्धा पद्धतिश्चात्र तथा श्रमविधिः' शुभः। गोण्डल्याश्च विधिः सम्यक् पात्रलक्षणसंज्ञिते। . परीक्षणे क्रमेणैव निरूप्यन्ते यथार्थतः॥
नर्त्तनाश्रय इहोदितं विदा ___ पात्रमेतदुचितं तु नर्तकी। मुग्धमध्यभिदयोः प्रगल्भता ..
भेदतस्त्रिविधमत्र तत् स्मृतम् ॥ यौवन(?न) त्रितयलक्षणं क्रमात् । तस्य लक्षणमिहाभिधीयते। तेन तत्त्रितयमत्र लक्ष्यते
यनिरूपित इहास्ति लक्षितम् ।। श्रीफलोपमकुचाधरलीला
भृत् कपोलजघनोरुविभ्रमम् । प्रीतिपूर्वसुरतं प्रति तत् सो
त्साहमत्र गदितं मयाऽऽदिमम् ॥ पीवरोरुजघनं कठिनोचैः ।
पीनमूलघनसंभ्रमस्तनम् । मन्मथस्य मृतजीवनौषधं
यौवनं निगदितं द्वितीयकम् ॥ तत्परं तु मदनोन्मदिष्णुता
हेतुकं परमशोभयान्वितम् । कामशिक्षितसुभावसंभृत
प्रौढनैपुणरति तृतीयकम् ॥ तुर्यमत्र गदितं तु कैश्चनो
न्मन्दमन्मथरसं द्वितीयतः। म्लाल(?न)ताद्युपचिताङ्गसंभ्रमं
तत्प्रगल्भविभवोद्धताद(दि)तः॥ 1-2 ABO विधि।