________________
नवरसाः] नृ० २७ को-उल्लास ४, परीक्षण ३
परस्यानुरागेण शृङ्गारो जायते रसः। उक्तिप्रत्युक्तिभेदेन हास्यस्तत्रैव दृश्यते ॥ अत्याकुलतया बाला यदा रोदति मैथुने । करुणस्तत्र विज्ञेयो रौद्रो निष्ठुरताडनात् ॥ नखदन्तकराघातैर्वीरो धीरजनप्रियः। भयाद्विन्दुनिपातस्य भयानकः स उच्यते ॥ लाला स्वेदः श्रमो मूर्छा बीभत्सो जायते रसः। अद्भुतोऽद्भुतसौख्यत्वात् शान्तो बिन्दुनिपातनात् ॥ १९२
॥ इति नवरसाः॥ ॥ रसनृत्यं च ॥
10 यं प्रभु नैकदेशीयनानानृत्यभिदाविदः।
राजकन्या रञ्जयन्ति सदानन्दैकमन्दिरम् ॥ इति श्रीराजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते संगीतराजे षोडशसाहस्रयां संगीतमीमांसायां नृत्यरत्नकोशे प्रकीर्णकोल्लासे लास्याङ्गपरीक्षणं तृतीयं [ समाप्तम् ।]