________________
5
10.
15
20
25
२१८.
नृ० १० को ० -उल्लास ३, परीक्षण ३
करचरणवेपथुगात्रस्तम्भसंकोचहृदय कम्पनेन । शुष्कोष्ठ तालुकण्ठैर्भयानको नित्यमभिनेयः ॥ ॥ इति भयानकः ॥ ६ ॥
[T]भिमतदर्शनेन गन्धरसस्पर्शशब्ददोषैश्च । उद्वेजनैश्च बहुभिर्बीभत्सो रसः सम्यगभिनेयः ॥ मुखनेत्र विकूणन नासाप्रच्छादना [व] नमितास्यैः । अव्यक्तपाद' पतनैर्बीभत्सः सम्यगभिनेयः ॥ ॥ इति बीभत्सो रसः ॥ ७ ॥
*
अथाद्भुतो रसः । यस्त्वतिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं च । तत् सर्वमद्भुतरसे विभावरूपं हि विज्ञेयम् ॥ स्पर्शग्रहोल्लकुसनैर्हाहाकारैश्च साधुवादैश्च । वेपथुगद्गदवचनैः स्वेदाद्यैरभिनयस्तस्य ॥ ॥ इति अद्भुतो रसः ॥ ८ ॥
*
अथ शान्तो रसः । शमस्थायी भवेच्छान्तः सर्वत्र समदर्शनः । तच्च ज्ञानाद्गतो (? ते )च्छः स तमोरागपरिक्षयात् ॥ प्रत्यक्षभूमिश्रितयोपारूढत्वेन नर्त्तकः लोकस्यैव स्वभावस्य वासनारूपभेदतः ॥ स्तम्भादिभिः प्रयोज्योऽत एवं शान्तरसात्मता । एतेषामनुभावास्तु ज्ञेया राजोपदेशतः ॥
॥ इति शान्तो रसः ॥ ९ ॥
[ बीभत्सः
१७८
१७९
१८०
१८१
१८२
१८३
१८४
१८५
*
श्यामः सितः कपोतश्च रक्तो गौरः सितस्तथा । नीलः पीतस्तथा शुक्लो रसवर्णाः क्रमादमी ॥ मूलं तु (तो) त्रिकस्यास्य रसमिच्छन्ति तद्विदः । त्रिभिर्नटस्थैर्यो भावा(?वोऽनुभावव्यभिचारिभिः । दाभि (विभावैर्व्यज्यते स्थायी स याति रसतां सदा ॥ १८७ शृङ्गाराज्जायते हास्यः करुणो रौद्रसंभवः ।
अद्भुत वीरसंभूतो बीभत्साञ्च भयानकः ॥
१८८
1 ABC कण्ठता । 2 ABO पाप | 3 ABC त्सरसः । 4 ABC कयल्पं ।
१८६