________________
____ २१
10
शिवप्रियम्] नृ०र० को-उल्लास ४, परीक्षण ३
[देशीनृत्यभेदाः । अथ देशीनृत्यभेदाः प्रदर्यन्तेऽत्र केचन । आतोद्यैर्वाद्यमानेषु यतिप्रहरणादिषु । रुद्रभक्ताः स्त्रियो यद्वा पुमांसः सौष्ठवान्विताः॥ १९ 'रुद्राक्षवलया भस्मत्रिपुण्ड्राः शिवरूपिणः । कोणान् दक्षिणवामेन सर्पान् कांस्यादिनिर्मितान् ॥ १०॥ बहुसङ्गमि(?भङ्गिम)नोहारि गायन्तः श्रेणिभिः शिवम् । कदाचित्सम्मुखीभूय लास्याङ्रुपबृंहितम् । यत्र नृत्यन्ति तत् प्रोक्तं शिवप्रियमिह स्फुटम् ॥
॥ इति शिवप्रियम् ॥१॥ नर्तनं यन्मया प्रोक्तमासारिताभिधं पथि। चारीभिर्मण्डलैश्चापि लास्याङ्रुपबृंहितैः॥ देशीतालैश्च संयोज्य तच्चेदत्र प्रवर्त्यते । तदा रासकसंज्ञं स्यादिति नृत्यविदो विदुः ॥ - [॥ इति रासकनृत्यम् ॥२॥] यत्र स्त्रीभिर्वसन्ततॊ नृत्यतेऽभिनयात्मकम् । वसन्तरागसंबद्धैर्गीतैरौद्धत्यवर्जितम् । चरितैश्चित्रितं राज्ञस्तदुक्तं नाट्यरासकम् ॥
. [॥ इति नाट्यरासकम् ॥ ३] यत्र राज्ञः पुरो नार्यश्चतस्रोऽष्टाथ षोडश। द्वात्रिंशद्वा चतुःषष्टिराधाय करपङ्कजैः॥ दण्डौ सुवृत्ती महणौ सुवर्णादिविनिर्मितौ। अरनिसंमितौ दैर्घ्य स्थौल्येनाङ्गुष्ठसंमितौ ॥ अथ देशानुरागेण गृहीत्वा दण्डचामरे । दण्डक्षौमाञ्चले यद्वा च्छुरिकादण्डकावथ ॥
११४ 26 चतुर्भिः पञ्चभिर्घातैर्यद्वा खग(?षक)प्रहारजैः। सशब्दं घातभेदैश्च युग्मीभूय वियुज्य च ॥ १९५ अग्रतः पृष्ठतो वापि पार्श्वसंगतयापि च । 1 ABO "द्राख्य । 2 ABO °तभिदांपथि of ताभिधां पथि Kumbha in भ. को. पृ. ९२४.
15
20
११२
११३