________________
मु० २० को०-उल्लास ४, परीक्षण ३ [नांनागतिप्रचारनृत्यम् म्लेच्छानां 'जातयो यास्तु पुलिन्दाद्या द्विजोत्तमाः। तेषां देशानुरूपेण कार्य गतिविचेष्टितम् ॥ पक्षिणां श्वापदानां च पशूनां च द्विजोत्तमाः। .. खखजातिसमुत्थेन भावेन प्रतियोजयेत् ॥ सिंहर्कवानराणां च गतिः कार्या प्रयोकृभिः। या कृता नरसिंहेन विष्णुना [प्रभविष्णुना ] ॥ आलीढं स्थानकं कृत्वा गात्रं तस्यैव चानुगम् । जानूपरि करं त्वेकमपरं चैव खस्थितम् ॥ अवलोक्य दिशः सर्वाश्चिबुकं बाहुमस्तके। गन्तव्यं विक्रमैर्विप्राः पञ्चतालान्तरोत्थितः॥ शेषाणामर्थयोगेन गतिं स्थान प्रयोजयेत् । .. शेष स्थान प्रयोगेषु रङ्गावतरणेषु च ॥ . एवमेते प्रयोक्तव्या नराणां गतयो बुधैः । नोक्ता याश्च मया ह्यत्र ग्राह्याश्चापि हि लोकतः॥ अतः परं प्रवक्ष्यामि स्त्रीणां गतिविचेष्टितम् । स्त्रीस्थानकानि कार्याणि गतिष्वाभाषणेषु च ॥ आयतं चावहित्थं च अश्वक्रान्तमथापि वा। स्थानकं तावदेव स्याद्यावचेष्टा प्रवर्त्तते। भग्नं च स्थानकं नृत्ये चारी च समुपस्थिता॥ यो विधिः पुरुषाणां हि कार्यो नाट्यप्रयोक्तृभिः। स्त्री पुंसः प्रकृति कुर्यात् स्त्रीभावं पुरुषोऽपि वा ॥ धैर्योवार्येण सत्त्वेन बुद्धया तद्वच्च कर्मणि । स्त्री पुंभावमभिनयैदिशेद् वाक्यविचेष्टितैः॥ स्त्रीवेषचरितैर्युक्तः प्रेक्षिताप्रेक्षितैस्तथा। मृदुमन्तर्गतैश्चैव पुमान् स्त्रीनृत्तमाचरेत् ॥ गतिप्रका(?चा)रस्तु मयोदितोऽयं
नोक्तश्च योऽभ्यासवशेन साध्यः। अतः परं रङ्गपरिक्रमस्य वक्ष्यामि कक्षान्तरसंविधानम् ॥
॥ इति नानागतिप्रचारनृत्यम् ॥
1 ABO जायते। of म्लेच्छानां जातयो यास्तु । ना. शा. अ. १२ श्लो. १५१. (G.O. S.). 2 inserted from. ना. शा. अ. १२ श्लो. १५४. (G. O.S.).