SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ लयः] मुं० २० को०-उल्लास ४, परीक्षण ३ नृत्यन्ती यल्लये कापि वेगाचेदपरौ लयौ । साश्चर्य योजयेनृत्ये नर्तकी स लयः स्मृतः॥ ॥ इति लयः॥२०॥ यद्रसं तनुते नृत्यं तद्रसानुगुणं सुखम् । पात्रं वर्णविपर्यासात् कुर्यान्मुखरसस्तदा ॥ ॥ इति मुखरसः ॥२१॥ थसकः स्यात् सललितं स्तनाधोनयनं लयात् । ॥ इति थसकः ॥ २२॥ यचारीकरणाद्यं स्यात् खभावाल्ललितं बलात् ॥ कुरुते कठिनं तद्धि वितडं कीर्तितं बुधैः। . ॥ इति वितडम् ॥ २३॥ पूर्वमौद्धत्यतो यत्र व्यापाङ्गिानि नर्तकी । सविभ्रमं पुनस्तानि पुरतः पार्श्वयोरपि । आहरन्ती वश्चयते जनं शङ्का तदोदिता ॥ ॥ इति शङ्का ॥ २४ ॥ त(य)दा स्यानर्तकी नीकी सङ्गीते सलये तदा। स्खलितावर्जिता रङ्गे नृत्यनीतिविदो विदुः॥ ॥इति नीकी ॥ २५॥ सोक्ता नमनिका यस्यां प्रयासेन विना नतिः । दुष्करेषु प्रयोगेषु नर्तक्यङ्गेषु दृश्यते ॥ ॥ इति नमनिका ॥२६॥ हस्तकैमरीभिश्च चारीभिः करणैरपि । वाद्यप्रबन्धवर्णानां समत्वेनैव नर्तकी । कुर्यान्नत्यमिदं प्रोचुर्नृत्याभिज्ञा विवर्तनम् । ॥ इति विवर्तनम् ॥ २७॥ तवा ममृणता यत्र शृङ्गाररससंभृता। दृष्टिः प्रकाश(१श्य)ते नव्या नृत्यहस्तकसंयुता॥ ॥ इति मसृणता ॥२८॥
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy