________________
२०८
-
. १०० को०-उल्लास ४, परीक्षण ३ विहसी स्यात् स्मितं वकं पद्मसौन्दर्यपेशलम् ।
॥ इति विहसी ॥ २९ ॥ सा गीतवाद्यता नृत्येन्नर्तक्यनुगुणं यदा ॥ .. वर्णानां च लयस्यापि तथा च गीतवाद्ययोः।
॥ इति गीतवाद्यता ॥ ३० ॥ यत्र विश्रम्य विश्रम्य लङ्घयन्ती मुहुर्मुहुः॥ वाद्यस्यावयवान्नृत्ये नर्तकी तद्विलम्बितम्।
॥ इति विलम्बितम् ॥ ३१॥ भावसंसूचकैरङ्गैर्नर्तकी यत्र नृत्यति ॥ यथावत् करणैरुक्तोऽभिनयो नयकोविदा ।
॥ इत्यभिनयः॥३२॥
अङ्गं लास्याङ्गकं प्रोक्तं ताण्डवागमनङ्गकम् ॥ यत्र नृत्ये द्वयोर्योगस्तदङ्गानङ्गसंज्ञकम् ।
॥ इत्यङ्गानङ्गम् ॥ ३३ ॥
ज्ञेया कोमलिका यत्राङ्गानां स्याद्बलनादिभिः ॥ क्रियाभिश्चेतसो यत्र दृश्यते तु परार्द्रता।
॥ इति कोमलिका ॥ ३४॥
लयेन चलनं यत्र लसल्लीलावतंसकौ ॥ चलत्वेनाचलत्वेन हावप्रचुरतायुतम् । यत्र की प्रकुर्वाते तत्तूकं मुनयोऽवदन ॥
॥ इति तूकम् ॥ ३५ ॥ शोभावलितसर्वाङ्गा नृत्यस्यावयवा यदा । पूर्वपूर्वमुपक्रान्ता वर्तेरनुत्तरोत्तरम् । तालप्रयोगचातुर्यात् स उयारो बुधैः स्मृतः॥
॥ इति उयारः ॥ ३६॥ अन्या अपि भिदाः सन्ति देशीलास्यासंभवाः । न ता इहोपदिश्यन्ते यतः साध्याः खबुद्धिभिः॥