________________
बलाचलिः] नृ०र० को०-उल्लास ४, परीक्षण ३ चलाचलिश्च सैवोक्ता शैध्यसांमुख्यनिर्भरा।
॥ इति चलाचलिः ॥ ६॥
लास्याङ्गानि सचारीणि पादादीनां च चालनम् ॥ कृत्वातिप्रौढितो यत्र गीतवाद्यादिमेलनम् । मध्ये मध्ये नटी कुर्यात् सुकलासं तदा स्मृतम् ॥ केचित् स्थानकचारीणां हस्तकाद्यङ्गकस्य च । गीतवाद्यलये मेलं कलासमभणन् बुधाः॥
॥ इति सुकलासः॥ ७॥
नृत्यन्ती नर्तकी यत्र भुजावधि विलासिनी । कुचयो कम्पनं कुर्याच्छीघं थरहरं तु तत् ॥
॥ इति थरहरम् ॥ ८॥
गीततालसमं यन्त्र कटिकुं(?कु)चभुजादिनः। नर्तकी चालनं कुर्यात् लास्थाङ्गं किन्तु तत्स्मृतम् ॥
॥ इति किन्तु ॥९॥ भावप्रकाशकैर्य'त्र(? श्लथै)'रङ्गोल्लासैर्मुहुर्मुहुः । सूक्ष्मैर्द्विस्त्रिगुणैर्वापि द्रुततालाग्निरूपितात् । स उल्लासो यत्र पात्रं मनो हरति दर्शयत् ॥
.. ॥ इत्युल्लासः ॥ १०॥ अग्रतः पृष्ठतोऽधस्तादूर्ध्व वा चालनं भवेत् । तालमानेन कुचयोः स्कन्धयोयुगपत् क्रमात् ॥ विलम्बेनाविलम्बेन तदुरोङ्गणमुच्यते। विलम्बितं द्रुतं वापि ललितं यत् कुचांशयोः। ललिते चालने तिर्यक् केषांचित्तदुरोंगणम् ॥
. ॥ इत्युरोङ्गणम् ॥ ११॥ .. . . . यत्राङ्गं नर्तकी नृत्ये सहेलाभावमन्थरम् ।
1 B0 यवर्तुलिगो। 2 OF नर्तक्यास्त्वरया तालाद् द्विगुणत्रिगुणैस्तदा । भावाभिव्यञ्जकैः सूक्ष्मैललितैः श्लथबन्धिभिः । अङ्गैरुल्लसनैर्युक्तमुल्लासं संप्रचक्षते । वेमः in भ. को. पृ. ८५.
25