SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ २०४ 5 10 15 20 25 नृ० १० को० - उल्लास ४, परीक्षण ३ ढिल्ला त्रिकलिर्भावो देशीकारं निजापणम् । अङ्गहारो मनष्ठेवा लयो मुखरसस्तथा ॥ थसको वितडं शङ्का नीकीनमनिकापि च । विवर्त्तनं मसृणता विहसी गीतवाद्यता ॥ विलम्बिताभिनयावङ्गानङ्गं कोमलिकापि च । तूकम्यार एतानि षट्त्रिंशत्संमितानि च । देशीयास्यकाङ्गानि राजराजो न्यरूरुपत् ॥ • सौष्ठवं यत् पुरा प्रोक्तं तस्य पात्राङ्गुलैस्तु या । चतुभिरष्टभिचैव यद्वा द्वादशभिस्त्रिधा ॥ खर्वता जानुक ट्यूरुकण्ठेष्वीष्येच्छ्याथ वा । तत्तदेशानुसारेण तत् सौष्ठवमिहोदितम् ॥ ॥ इति सौष्ठवम् ॥ १ ॥ * यच सामग्र्यसंपत्ती कुतपे प्रगुणीकृते । स्वस्थाने स्थापयेदङ्गं नर्त्तकी स्थापना तु सा ॥ ॥ इति स्थापना ॥ २ ॥ * ईषन्मन्दानिलचलत्पद्मपत्रोद बिन्दुवत् । यत्राङ्गनाङ्गसंचारो भाति तालः स उच्यते ॥ ॥ इति तालः ॥ ३ ॥ * सुकुमारं सुमधुरं सविलासं च चालनम् । युगपत् बाहुक ट्यूरु' त्र्यस्रत्वे लढिरुच्यते ॥ केचिदानन्दसंदोहं सङ्गीतप्राप्तिसंभवम् । सौन्दर्यातिशयोपेतं' कर्माहुढिसंज्ञितम् ॥ ॥ इति लढिः ॥ ४ ॥ युगपन्नाभिकट्यूरुपादानां सविलासकम् । नातिमन्दतं तालसाम्यान्माधुर्यपेशलम् । चालनं चालिरित्युक्ता त्वचलस्थिति भूभृता ॥ 1 ABO 'ट्योरू । 2 ABO ॥ इति चालिः ॥ ५ ॥ * सौन्द [सम् ३९ ४० ४२ ४३ ४४ ४५ ४६ ४७ ४८
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy