________________
मृ०२० को०-उल्लास ४, परीक्षण २ [पेरणिपति रिगोण्युपशमेनाथ अनृत्यन् पेरणी विशेत् । ततः शान्तेषु वाद्येषु सहतालधरैः परम् ॥ गारुको वाद्यमानेऽथ ताले निपुणवादके। यद्वा सरखतीकण्ठाभरणे मलादिनः॥ मनोहरे तालरसे(?रसे ताले) ध्वनौ च व्याप्तिमृच्छति । पेरणी प्रारभेणा(?ता)थ 'घर्घरान् पूर्वसूचितान् ॥ ततो निबद्ध कविते कूटे वर्णसरेण वा। निःसारुणा च तालेन विषमं नृत्यमाचरेत् ॥ नृत्यन् सालगसूडेन रेखां च स्थापनं तथा। हृद्यां च वहनी गीतनर्तनं दर्शयेत् क्रमात् ॥ विषमं च प्रहरणानुगमाभोगवादने ।। कविचारान् प्रकुरुते तथा भावाश्रयानपि । लोकमार्गानुसारेण ततोऽन्यानपि दर्शयेत् ॥
॥ इति पेरणीपद्धतिः॥ वायेषु वाद्यमानेषु करणैरश्चितादिभिः । दुष्करैः शस्त्रधाराथ(?प)वञ्चनैभ्रमणैरपि ॥ प्रांशुवंशोपरिगतैर्वरत्राचित्रचंक्रमैः । उच्चैः पक्षिवदुड्डीनैर्मृदङ्गपरिवर्तनैः॥ नर्त्तनैर्विषमैरेवमादिकैर्नृत्यमाचरन् । शस्त्रसंकटसंपाते छुरिकानर्तनादिषु ॥ भ्रमर्यादिषु च प्रौढो रज्जुसञ्चारचक्षुकः । भारस्य भूयसो वोढा बुधैः कोहाटिकः स्मृतः॥
॥ इति कोह्राटिकः ॥ पेरणीव नटो नारी नर्तयन्नतकोऽपि च ।
कोहाटिका प्लुतिं कुर्वन् यद्वैरी स्यात्पलायनात् ॥ इति श्रीराजाधिराजश्रीकुम्भकर्णविरचिते सङ्गीतराजे नृत्यरत्रकोशे प्रकीर्णकोल्लासे
न्यायादिपरीक्षणं द्वितीयं [ समाप्तम् ]
28
1 Kumbha in भ. को. पृ. ८९० पेरणी पारमेनाट्यं धर्धरान् पूर्वसचितान् । ततो निबद्ध कविते गूठे वर्णसरेण वा ॥ 2 AB डां।