________________
नृ० २० को० - उल्लास ४, परीक्षण २.
पादास्फाली विलम्बी च हृदिगा जानुगा तथा । चिरं विलोकितव्येति कला द्वादश कीर्तिताः ॥ चित्रका पञ्चकारूढेत्येवं रेखा त्रिधोदिता । सर्वगात्रेषु शिथिलो यदा नृत्यति केवलम् । चक्षुषा श्लाघ्यते वाद्यं (2) रेखा स्याचित्रिका तदा ।। ॥ इति चित्रका ॥
*
घर्घरो मुद्रितं चैव बहुधा चाङ्गचालनम् । प्रचुरा हस्तचालिश्चेद्रेखेयं पञ्चका मता ॥ ॥ इति पञ्चका ॥
*
गीताक्षरक्रमाद्वाद्यं तालमानेन वादयेत् । घर्घरा गृह्यते सर्वा रूढा रेखा तु सा मता ॥ ॥ इति रूढा ॥
*
*
स्यादत्रोत्प्लुतिपूर्वं यत्करणं विषमं हि तत् । ॥ इति विषमम् ॥ गीतं सालगमत्र स्याद्यदुक्तं गोण्डलीविधौ ॥ ॥ इति गीतम् ॥ नायको वर्ण्यते यत्रोत्तमः स कविचारकः । ॥ इति कविचारकः ॥
*
*
भावाश्रयो बुधैर्ज्ञेयो विकृतार्थानुकारवान् ॥ ॥ इति भावाश्रयः ॥ ॥ इति पेरणीलक्षणम् ॥
*
अथ पेरणितः सम्यग् वक्ष्ये पद्धतिलक्षणम् । संप्रदायविदो रङ्गभूमिदेशमुपागताः ॥ गोण्डलीविधिवचात्र कुर्युधिधिधिधीतितैः । गम्भीरध्वनिमातोद्यवादनं मिलिताच ते ॥ ततो विलम्बितलयं रिगोण्युटवणाश्रयम् । पादत्रयं वादयेयुर्द्विर्द्विनिःसारुतालतः ॥ ततो विकृतवाग्वेषभूषो रङ्गभुवं विशेत् । मोडकः प्राज्यहास्यैकरसस्तस्मिन् प्रनृत्यति ॥
3
३२
३३०
३४
३५
३६,
३७
10
15
* *
20
३८
३९ 25