________________
*
भा ] नृ० र० को०-उल्लास ४, परीक्षण १ साक्षात् स्थापयिता स्थिती जनमनोहारी स्वयं रक्षका
पात्रस्यापि हृदेव रूपकविधौ निर्माणकर्मोद्धरः॥ 'नृत्यस्याखिलन(?कृत्यवित् सममुखप्रा(? स्था)यग्रहज्ञानणी
र्दोषाणामपिधानवित् खयमसौ स्थानृत्यगीतादिनः। प्राप्तप्रौढिसुशस्तवाक्यविदुरो धीरो गुणोद्भासको नाट्ये शुद्धगुणार्णवो निगदितस्तज्ज्ञैरुपाध्यायकः॥ ३
॥ इत्युपाध्यायलक्षणम् ॥
[ आचार्यः।] आचार्यः श्रुतिकोविदः पटुमतिर्वाक्ये सुवेषो रसे
ज्ञाता लक्षणलक्ष्यतत्त्वविषये पू(तू)र्यत्रये पण्डितः। 10 हास्यज्ञो नृपसंसदि प्रगुणधीरास्योद्भवे वादने . नानादेशविचित्रकाकुरचनाप्रावीण्यविद्याध्वगः ॥ ४
. ॥इत्याचार्यः॥
[ नटः।] . प्रोक्तश्चात्र नटो नवीनरचने भाषादिनस्तत्त्ववित् ..चित्तज्ञश्च चतुर्विधाभिनयविन्नाव्यागमे पारगः।
॥ इति नटः॥
. [नर्तकः।। संप्रोक्तोऽपि च नर्तको निशितधीर्मार्गाख्यनृत्ये परं विख्यातोत्र कृतश्रमोऽङ्गचलने दक्षः खकीये स्मृतः॥ ५४०
॥ इति नर्तकः ॥
[वैतालिकः ।] मर्मज्ञोऽखिलरागराजिषु परं वेदी पुनः किङ्किणी
वाये चापि धृतोऽत्र नर्तकगणैर्दक्षो मतश्चारणः । भाषाशेषविशेषवित्पटुमतिर्लोकापवादे नृणाम् सर्वेषामपि नर्मशर्मकरणे वक्षोऽत्र बैतालिकः॥
. इति वैतालिकः ॥ - 1 480 'सा'। 2 ABO 'गुणेर्णव । 3 ABC चेही. Kumbha in . को. बेदी पृ. ९४७:
15
२५ नृ० रन.