SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ नृ०र० को०-उल्लास ४, परीक्षण २ [न्यायाः यद्वृत्तिं भुञ्जते विप्राश्चतुर्दिक्षु गृहे स्थिताः। आचार्यश्च स्वयं योरिविनयाचारशिक्षणे॥ इति श्रीराजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते सङ्गीतराजे नृत्यरत्नकोशे प्रकीर्णकोल्लासे वृत्त्यादिलक्षणं नाम प्रथमं परीक्षणं [समाप्तम् ।] चतुर्थोल्लासे द्वितीयं परीक्षणम् । [मङ्गलम् ।] यं न्यायप्रविचारेणोपपत्त्यागमगोचरम्। अक्षपादादयो नित्यं मन्वते तं नुमः शिवम् ॥ अथ न्याया:संगरेषु परशस्त्रवचनं खीयशस्त्रपरितापनं रिपौ। संविधातुमुचिता शरीरजा न्यायशब्दगणनात्र वर्तना ॥ २ भारतः स खलु सात्वतो परो वार्षगण्य इह कैशिकस्तथा । तद्भिदास्तु किल वेदसंमिता वृत्तिषु क्रमतया निदर्शिताः॥ ३ तस्य लक्षणविचारशुद्धये महेऽत्र सकलान् प्रविचारान् । चारिकानिगदितास्तु विचित्रा याः पुरा च गतयः परिक्रमाः॥४ भारते निगदिताः प्रविचाराः शस्त्रमोक्षणविधानगोचराः। वामकेन विभृयात् फलकान्तं दक्षिणेन तु कृपाणमादरात्॥५ तौ करावुपसृतौ विनिधायाक्षिप्य तौ च तत एव शिक्षितः। भ्रामणं च फलकस्य विदध्यातूभयोरथ सपार्श्वयोः सुधीः ॥ ६ भ्रामयेच्च परितः शिरसस्तत् खगिनं त्वथ शिर कपोलयोः अन्तरा च मणिबन्धतस्तथोद्वेष्टयेच विधिना प्रयत्नवान् ॥ ७ भ्रामणं च फलकस्य विदध्यात् संभ्रमेदुपरि मस्तकं यथा। भारते विधिरयं मुहुर्मुहुः शस्त्रपात उचितः कटीतटे ॥ ८ · ॥ इति भारतः ॥ [१॥] सात्वतेऽपि विधिरेष' शस्यते पृष्ठतो भ्रमणमत्र शस्त्रगम् । शस्त्रपातविधिरत्र पादयोः कीर्तितो भरतमुख्यसूरिभिः॥ ९ ॥ इति सात्त्वतः ॥ [२] 20 ॐ ___i ABO विधेरेष। 2 ABO सावितः।
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy