SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ मककलासाः] नृ०र० को०-उल्लास ४, परीक्षण १ धृतमुक्ते षको मत्स्येऽनुपदं हस्तकानपि ॥ अलपममरालं च मुकुलं चापि तन्वती। चित्रं नृत्यति यत्रैषा भेदः प्रोक्तस्तृतीयकः॥ . [॥३॥] उत्तानवश्चिती हस्तौ यथा कृत्वार्द्धचन्द्रकम् । कव्यां निवेश्य हस्तं च प्रपदाभ्यामथारभेत् ॥ नानागतिविशेषांश्च धनुर्वत् पृष्ठतः पुरः। वक्राकृतिः पदाङ्गुष्ठपाणिसंस्पर्शलालसा । प्रनृत्यति यदा चित्रं भेदः प्रोक्तश्चतुर्थकः॥ [॥४॥] ॥ इति बककलासचतुष्टयम् ॥ [ मण्डूककलासाः। त्रिपताकं करं कृत्वोत्लुत्योत्प्लुत्य समे पदे । सर्वतो दधती चित्रं विषमासनमास्थिता॥ यत्र नृत्यति स प्रोक्तः कलासः प्लवसंज्ञकः। त्रिपताको पताको वा नाभौ कृत्वा करौ ततः॥ . प्रयाति पद्धयां पश्चात्तालस्यानुगुणं यदा। तदायमाद्यभेदः स्यात्प्लवस्य मुनिसंमतः॥ - [॥१॥] त्रिपताको करौ कृत्वा वामपादं पुरःसरम् । हस्तं च वाममेवं स्याल्लघुमानेन वामतः॥ गत्वा तत्रासनं कृत्वा समं विषममेव वा। ततः स्थानात् समुत्प्लुत्य गच्छेच्चेत्तुल्यपादिकाम् । मण्डूकस्य द्वितीयोऽयं भेदः प्रोक्तस्तदा बुधैः॥ [॥२॥] त्रिपताको करौ कृत्वा समं वा विषमासनम् । स्थित्वा स्थित्वा समुत्प्लुत्य चरणौ दधती क्षितौ ॥ पुरो गच्छति पश्चाच लघुमानेन चेत्तदा । पश्यन्ती धरणी प्रोक्तः प्लवभेदस्तृतीयकः ॥ [॥३॥] ७८
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy