________________
D० र० को०-उल्लास ४, परीक्षण १ विकलासा गर्भखिन्ना मृगीवेयं लास्याङ्गैर्नृत्यतत्परा । हरिणप्लुतया चार्या गुरुमानेन चेत्ततः। त्रिविधां-लुतिमाधत्ते तदा मृगवि(क)लासकः॥
॥ इति मृगवि(१क)लासः॥
[ बककलासाः।] पार्श्वे विधुन्वती यत्र बकवत् सजलौ छदौ । कुर्वती हस्तकाँश्चैव संदंशमुकुलादिकान् ॥ आसनं च यथोत्थानं गुरुमानेन तन्वती। नरीनर्ति नटी यत्रानल्परूपविशेषवत् ॥ कलासो बकसंज्ञोऽयं विज्ञेयो नृत्यकोविदः। .. विधाय भ्रमरी काश्चित् संहतस्थानके स्थिता॥ अलपल्लवसंज्ञौ च कृत्वारालौ करौ क्रमात् । यत्राटी तत्र तौ नीत्वा युगपत् क्रमतोऽपि वा॥ अङ्गं विधुन्वती चित्रं सवारि (संचारि)गरुताविव । । मत्स्यग्रहार्थं वकवत् कृत्वा मुकुलहस्तकम् ॥ मन्दं मन्दं पुरस्ताच पश्चाच प्रपदेन या। याति यस्मिन् कलासे सा विज्ञेया प्रथमा भिदा ॥
[॥१॥] निपताको करौ कृत्वा विषमासनमास्थिता । मण्डिको चरणौ कृत्वा यथाखं च पदे पदे ॥ नयन्ती हस्तकी चित्रं संदंशमथ तन्वती। पश्यन्ती पार्श्वयोरग्रे चकितेव यदा नटी। कुरुते नृत्यमेषाऽसौ बकभेदो द्वितीयकः ॥
20
[॥२॥]
सव्ये तदितरे भागे वामे वामेतरं यदि । आपातयेद् द्रुतं जानु सवेगं चरणी भुवि ॥ निवधाति तदा प्रोक्ता मण्डिका नृत्यकोविदैः । मुकुलं हस्तकं कृत्वा शनैः पश्चाद् द्रुतं पुरः॥ गच्छन्ती प्रस्खलत्येव पद्यत्यमु?पतत्यनु)पदं यथा । 10 संसवा।