________________
प्रयोजना] नृ०र० को०-उल्लास ४, परीक्षण १
सास्वती निर्मिता वृत्तिरिति सत्त्वैरसंभ्रमैः । लीलाभावैरङ्गहारैर्विचित्रैः सुकुमारकैः॥ यद्ववन्ध शिखापाशं तत्र जाता तु कैशिकी। विचित्रैयुद्धकरणैर्नानाचारीसमुद्भवैः॥ संरम्भावेगबहुला संजाताऽऽरभदी तदा । एवं तदा हतौ दृष्ट्वा दानवौ द्रुहिणोऽब्रवीत् ॥ न्यायसंज्ञा भविष्यन्ति शस्त्रमोक्षे सदा इमाः। ऋषिभिस्तास्तथा दृष्ट्वा कृताः पाव्या(?व्या)भिसंयुताः॥ नाट्यवेदसमुत्पन्ना वागङ्गाभिनयात्मिकाः। भारत्या अभवन् भेदाश्चत्वारोऽङ्गत्वमागताः॥ प्ररोचनाऽऽमुखं चैव वीथी प्रहसनं तथा। तत्र प्ररोचना पूर्वरङ्गे पापनाशिनी ॥ जयाभ्युदयमाङ्गल्या विघ्नप्रध्वंसकारिणी।
॥ इति प्ररोचना ॥१॥ प[]रिपार्धादिका यन्त्र सूत्रधारेण कुर्वते ॥ 'आमुखं तत्र विज्ञेयं बुधैः प्रस्तावनाभिधम् । उद्घाटका कथोद्धातः प्रयोगातिशयस्तथा ॥ . प्रवृत्तिकावगलि(?लगि)ते आमुखाङ्गानि पञ्च वै ।
॥ इत्यामुखम् ॥ २॥ वीथी प्रहसनं चैव दशरूपकगोचरे ॥
... ॥ इति वीथीप्रहसने ॥३॥
॥ इति भारती ॥
[सात्त्वती।] तत्र सत्त्वगुणोत्कर्षा हर्षशौर्यगुणोत्तराः। त्यागशौर्यविशोकाद्या वृत्तिः स्यात् सात्त्वती शुभा ॥ १९० उत्थापकपरिवर्तकसंलापसंघात्यनामधेयाश्च । चत्वारः स्युर्भेदाः सात्त्वत्या मुनिवरेणोक्ताः॥ उत्थापनस्तु संहर्षो,
Mm
॥ इत्युत्थापकः ॥१॥
____1A line seems to be missing here or the reading may be: संलापमासुखं ज्ञेयं । of. ना. शा. अ. २०. श्लो. ३०-३३. (G.0.0.). 2 ABo put the Verse after इति भारती.
१४ न.रज.