________________
शु० र० को०-उल्लास ३, परीक्षण ३ [इत्याक्षिप्तरेचितः षोडशं करणं ज्ञेयमथो तलविलासितम् । निशुम्भितं विद्युद्धान्तं गजक्रीडितकं ततः॥ " नितम्बविष्णुकान्ताख्योरुद्धृत्ताक्षिप्तकानि च ।
उरोमण्डलसंज्ञं तु नितम्बं करिहस्तकम् ॥ कटीछिन्नमिति प्राहुः सप्तविंशतिरत्र वै। वैकल्पितं कटीछिन्नं केचिदाक्षिप्तरेचितम् ॥ इच्छन्ति तन्मतेऽत्र स्युर्विंशतिः पञ्च चैव हि । नितम्बोरोमण्डलयोरावृत्तिं ये च मन्यते ॥
करणानि मते तेषामत्र स्युः सप्तविंशतिः। 10 ये वक्षाखस्तिकं चात्र कटीछिन्नं च नो जगुः। .. पञ्चविंशतिरेव स्युस्तदा वृत्त्यापि तन्मते ॥..
इत्याक्षिप्तरेचितः॥७॥
.
रेचिते करणं पूर्व कुर्यात् खस्तिकरेचितम्। अर्धरेचितकं पश्चाद्वक्षःस्वस्तिकमेव च ॥ .. उन्मत्तसंज्ञकं पश्चात् कुर्यादाक्षिप्तरेचितम् ।
अर्धमत्तल्लिकरणं स्याद्रेचकनिकुद्दकम् ॥ .. । विधायैतानि कार्य च भुजङ्गत्रस्तरेचितम् ।
नूपुरं करणं कृत्वा कार्य वैशाखरेचितम् ॥ भुजङ्गाञ्चितकं दण्डरेचितं चक्रमण्डलम् । वृश्चिकं रेचितं कृत्वा कुर्याद् व्यंसितमेव च ॥ , विवृत्तं विनिवृत्तं च वर्तितं गरुडप्लुतम् । मयूरललितं चैव सर्पितं स्खलिताभिधम् ॥ प्रसर्पितं च करणं तलसंघट्टितं तथा। वृषभक्रीडितं कुर्याल्लोलितं च ततः परम् ॥ षड्विंशतिरितीमानि परिवृत्तिप्रकारतः। . विधाय विषमै गै[:] पर्यायादिक्चतुष्टये। उरोमण्डलकाधं च ततः कुर्याद् द्विकं सुधीः॥
॥ इति रेचितः ॥ ८॥ पुरं च विवृत्तं च निकुहार्धनिकुट्टके। अर्धरेचितकं पश्चात् स्याद्रेचकनिकुट्टकम् ॥
-