________________
निकुट्टकः ]
० १० को० - उल्लास ३, परीक्षण ३
ललिताख्यं च वैशाखरेचितं चतुरं ततः । दण्डरेचितकं पश्चात् कार्य वृश्चिककुट्टितम् ॥ पार्श्वनिकुहकं पश्चात् संभ्रान्तोद्घटितेऽपि च । उरोमण्डलकं पश्चात् करिहस्तं सहान्तिमम् ॥ एवमर्धनिकुट्टे स्युर्द्दश सप्त च संख्यया । ॥ इति अर्धनिकुट्टकः ॥ ९ ॥
*
वृश्चिकासृते कार्य लतावृश्विकमादितः ॥ निकुञ्चितं मतलिः स्यान्नितम्वं करिहस्तकम् । षडेतानि महान्त्येव नितम्बस्ना (?स्था) नके परे ॥ इच्छन्ति भ्रमरं तानि तन्मतेऽपि षडेव हि ।. ॥ इति वृश्चिकासृतः ॥ १० ॥
स्वस्तिकं व्यंसितं तु द्विरलाताख्योर्ध्वजानुनी ॥ निकुञ्चितार्घसूच्याख्यविक्षिप्तोद्वर्तकान्यथ । आक्षिप्तं करिहस्तं चैकादश स्युरलातके ॥ व्यंसितं द्विः प्रयुज्येत तदैकमधिकं भवेत् । ॥ इत्यलातकः ॥ ११ ॥
परावृत्ते दक्षिणाङ्गे जनितं शकटास्यकम् ॥ अलातं भ्रमरं चाथ गण्डे करनिकुट्टकम् । करिहस्तं क्रमात् षङ्कं करणानामिहेरितम् ॥ निकुडनमिहाङ्गस्य नमनोन्नमनं मतम् । ॥ इति परावृत्तः ॥ १२ ॥
*
परिवृत्तेऽङ्गहारे तु नितम्बं करणं ततः ॥ करणानुक्रमणे चैव कुर्यात् खस्तिकरेचितम् । विक्षिप्ताक्षिप्तकमथो लता वृश्विकमेव च ॥ उन्मत्तं करिहस्तं च भुजङ्गत्रासितं तथा । आक्षिप्तिकं नितम्बं च नितम्बान्तान्यमून्यथ । नवभ्रमरकाख्येन परिवृत्त्या समाचरेत् । दिगन्तरमुखस्थित्येत्यावर्त्यापरयोर्दिशोः ॥ करिहस्तकटीछिन्ने विदध्यादाद्यदिक्स्थितः ।
1 ABC 'क्षिति' ।
र
७६
७७
४
७८
७९
c40
८०
८१
5
*15
८२
८३
0:20
८४
८५
96
१