________________
[ी .
नृ० २० को०-उल्लास ३, परीक्षण ३ द्वि[:] कृत्वालातकाक्षिप्ते उरोमण्डलकं तथा। .... अष्टभिः करणैरत्रालीढः सकरिहस्तकैः॥
॥ इत्यालीढः ॥ १३॥ नूपुरं भ्रमरं कृत्वा व्यंसितालाताके तथा । नितम्बसूचिसंज्ञं वाच्छुरिते कर(?रि)हस्तकम् । अष्टभिः करणैरस्मिन् लक्ष्म प्रोक्तं मनीषिभिः ॥
॥ इत्याच्छुरितः ॥ १४ ॥ ..पार्श्वच्छेदे च करणं कुर्याद्वृश्चिककुहितम् ।
ऊर्ध्वजानु तथाक्षिप्त खस्तिकं च ततः परम् ॥ परिवर्त्य त्रिकं चोरोमण्डलं च नितम्बकम् । करिहस्तेन सहितं करणाष्टकमीरितम् ॥
॥ इति पार्श्वच्छेदः ॥ १५ ॥ अर्धसूचि तु वामाङ्गे विद्युद्धान्तं च दक्षिणे । पुनरंसे विपर्यासाद् द्वयं छिन्नं ततः परम् ॥ अतिक्रान्तं वामतोऽथ लतावृश्चिकसंज्ञकम् । अष्टभिः करणैरेष विद्युद्धान्तः प्रकीर्तितः॥
॥ इति विद्युद्भान्तः ॥१६॥ ॥ इति चतुरस्रमानेन षोडशाङ्गहाराः ॥
[त्र्यसमानेनाङ्गहाराः।] 20 अथ त्र्यरेण मानेन षोडशान्यान् प्रचक्ष्महे ।
निकुहार्धनिकुट्टे च भुजङ्गवासितं तथा ॥ सतोऽपि करणं कार्य भुजङ्गन्नस्तरेचितम् ।
आक्षिप्तोरोमण्डले च क्रमात् कृत्वा लताकरम् । . विष्कुम्भापसृते ज्ञेयं करणानां तु सप्तकम् ॥
॥ इति विष्कुम्भापसृतः॥१॥ मतल्लि गण्डसूचि स्याल्लीनं चाप्यपविद्धकम् । चत्वारि द्रुतमानेन तलसंस्फोटितं ततः। करिहस्तं च सप्त स्युर्मत्तस्खलितसंज्ञके ॥
॥ इति मत्तस्खलितः॥२॥