________________
पायलस्तिक] नृ०र० को०-उल्लास ३, परीक्षण ३
दिकखस्तिकं विधायैकेनाङ्गेनार्धनिकुट्टकम् । पुनर्दिकवस्तिकं कृत्वाऽन्याङ्गेनार्धनिकुद्दकम् ॥ अपविद्धमूरूवृत्तं चाक्षिप्तं च नितम्बकम् । करिहस्तमिति प्रोक्तो दशभिः करणैरयम् । पार्श्वस्वस्तिकसंज्ञोऽयमङ्गहारो हरार्चने ॥
॥ इति पार्श्वस्वस्तिकः ॥ ८॥ अर्धसूच्यथ विक्षिप्तमावर्त च निकुद्दकम् । अथोरूवृत्तमाक्षिप्तमुरोमण्डलकं ततः। करिहस्ते तथा सूचीविद्धोऽभून्नवभिः स्फुटः॥
॥ इति सूचीविद्धः ॥९॥ अपराजितसंज्ञे स्याद् दण्डपादं ततः परम् । व्यंसितं प्रसर्पितं च निकुद्यार्धनिकुट्टके । आक्षिप्तोरोमण्डले च करिहस्तमितीरितैः । नवभिलक्षणं प्रोक्तं मुनभिर्भरतादिभिः॥
॥ इत्यपराजितः ॥ १०॥ बहुशचित्रगुम्फानि मदस्खलितकं तथा। मतल्लिकरणं चैव तलसंस्फोटितं तथा ॥ कृत्वैतानि निकुटुं चोरुद्वृत्तं करिहस्तकम् । आचत्रिकद्विरभ्यासादस्मिन् तानि तथा दश ॥ चतुःपञ्चादिकान् केचित् त्रिकेऽभ्यासान् विदुर्बुधाः । मवाद्विलसिते तच लक्षणस्थं मयोदितम् ॥
॥ इति मदविलसितः॥११॥ दक्षिणान रचयेद् भ्रमरं नूपुरं तथा। भुजङ्गात्रासितं चैव ततो वाम(मे)न चैव हि ॥ वैशाखरेचिताक्षिप्तच्छिन्नानि भ्रमरं तथा। उरोमण्डलसंज्ञं च नितम्ब करिहस्तकम् । एकादशभिरेव स्यान्मत्ताकीडोऽङ्गहारकः॥
॥इति मत्ताक्रीडः ॥ १२॥ वामतो व्यंसितं कुर्याग्निकुटुं चतुरं ततः।
जारका ।।