________________
*
m : न० २० को०-उल्लास ३, परीक्षण ३
उरोमण्डलमास्थाय नितम्ब करिहस्तकम् ।
दशभिः करणैरेभिः कार्यः पर्यस्तकाभिधः॥ ...
॥ इति पर्यस्तकः ॥२॥ नूपुरं च तथाक्षिप्तं छिन्नं सूचीनितम्बकम् ।
करिहस्तं तथा चोरोमण्डलक्रमतोऽष्टभिः। . एभिस्तु करणैः प्रोक्तो भ्रमरो भ्रमपेशलः ॥
॥ इति भ्रमरः ॥ ३॥ अपक्रान्तं व्यंसितस्य केवलं करजाः क्रियाः।
करिहस्तं चार्धसूचि विक्षिप्तं च ततः परम् ॥ 10. कटीछिन्नं तथा चोरुद्वृत्तमाक्षिप्तकं पुनः। .
करिहस्तमिति प्रोक्तं नवकं करणोद्भवम् । . अपसर्पितसंज्ञे स्यादङ्गहारे हरप्रिये ॥
॥ इत्यपसर्पितः॥४॥ : नूपुरं चैव विक्षिप्तमलताक्षिप्तके ततः। 18 उरोमण्डलकं चैव नितम्बं करिहस्तकम् ॥ - करणैरष्टभिः प्रोक्तो बुधैराक्षिप्तिकोऽत्र च । विक्षिप्तालातकाक्षिप्तान्यत्र केचिद् द्विरभ्यधुः॥
॥ इत्याक्षिप्तिकः ॥५॥ कृत्वा समनखं छिन्नं संभ्रान्तं दक्षिणाङ्गतः। वामतो भ्रमरे चार्धसूच्यतिक्रान्तमेव च ॥ भुजङ्गत्रासितं पश्चात् करिहस्तं क्रमादिति । नवभिः करणैः प्रोक्तः परिच्छिन्नोऽङ्गहारकः ॥
॥ इति परिच्छिन्नः ॥६॥ अङ्गद्वयेन वैशाखरेचितं चाथ नूपुरम् । भुजङ्गबासितोन्मत्ते मण्डलखस्तिके ततः॥ निकुहमूरुद्वृत्तं चाक्षिप्तोरोमण्डले तथा। करिहस्तं क्रमादेतैरेकादशभिरुच्यते । वैशाखरेचितो नाम विशाखे पितृसेविना ॥
॥ इति वि(?)शाखा(?ख)रेचितः ॥ ७॥
25
____1 The reading may be विशाखेऽपि नृसेदिना । The meaning in both the cases is not clear,