________________
रामानेनाङ्गहाराः] नृ० र० को ० - उल्लास ३, परीक्षण ३
स्थिरहस्तोsथ पर्यस्तो भ्रमरश्वापसर्पितः ॥ आक्षिप्तोऽथ परिच्छिन्नस्तथा वैशाखरेचितः । पार्श्वस्वस्तिकसंज्ञध सूचीविद्धोऽपराजितः ॥ मदाद्विलसिताख्यश्च मत्ताक्रीडस्ततः स्मृतः । आलीढश्चाच्छुरितकः पार्श्वच्छेदाभिधस्ततः ॥ विद्युद्धान्त इति प्रोक्ता अङ्गहारास्तु षोडश । मानेन चतुरस्त्रेण मानदानविपश्चिता ॥ विष्कुम्भापतो मत्तस्खलितो म ( ? ग ) तिमण्डलः । अपविद्धश्च विष्कुम्भोद्भहिताक्षिप्तरेचिताः ॥ रेचितोऽर्धनिकुश्च वृष्णि ( श्चि) कापसृतस्ततः । अलातकः परावृत्तः परिवृत्तकरेचितः ॥ उद्वृत्तश्चैव संभ्रान्तस्ततः स्वस्तिकरेचितः । षोडशैते व्यस्रमाना द्वात्रिंशदुभयेऽप्यमी ॥ करणव्रात संदर्भविशेषश्चाङ्गहारकः । इत्युक्ते स्यात्तदानन्त्यं ग्रन्थवैचित्र्यहेतुकम् ॥ प्राधान्यं विनियोगस्य समाश्रित्येयतां कृता गणना गुम्फवैचित्र्यात् खयमूह्याः परैप (? रस्प) रैः ॥ लीनं समनखं कृत्वा व्यंसितं च निकुट्टकम् । ऊरूद्वृत्तं विधायाथ स्वस्तिकाक्षिप्तके तथा ॥ नितम्बं करिहस्तं च कटीछिन्नमिति क्रमात् । दशभिः करणैः प्रोक्तः स्थिरहस्तो महीभृता । द्वात्रिंशदङ्गहारेषु ज्ञेयमन्तमवस्थितम् ॥
[ चतुरस्रमानेनाङ्गहाराः । ] अनुक्तमपि तत्त्वज्ञैः कटीछिन्नं तु लक्ष्मगम् । विधाय लक्ष्म सूत्रस्थं करणद्वन्द्वमादितः ॥ चतुर्द्दक्षु ततोsन्यानि करणानि क्रमेण च । नृत्यवैचित्र्यमाधातुमङ्गहारेषु वर्तयेत् ॥
॥ इति स्थिरहस्तः ॥ १ ॥
तलपुष्पपुढं तद्वदपविद्धं च वर्तितम् । निकुमूरुद्वत्ताख्यमाक्षिप्तं तदनन्तरम् ॥
1 BO वर्तते ।
६
3
११
१२० :
१३
१४
१५
१६
१७ 15
१८
१९
२०
10
२२
20
२३30