________________
5
10
15
20
265
من
नृ० १० को०- उल्लास ३, आ० सं० प्रकरणम्
यथा गीते सदाभोगः शिखरत्वे निरूपितः । तथा नृत्ये च तासां तु नर्तनं कलशोपमम् ॥ आभोगनर्तने प्रोक्ता भ्रमर्यो मुख्यतो बुधैः । विशेषाङ्गमकादीनां सुप्रभास्ताः प्रकीर्तिताः ॥ भरतोक्ता अपि त्यक्त्वा अल्पाल्पाः करणे खके । ताभ्यः कियत्यो वक्ष्यन्ते कामसंजीविकास्तु याः ॥
wwwww
*
पताकं हृदये न्यस्य करेऽन्यस्मिन् प्रसारिते । तदेवानं बहिः क्षिश्वा भ्रमणाद् हृदयङ्गमाः । भ्रमे यत्र स्मृतोऽभ्याससुहृद्भिस्त्रिः पुरःसरम् ॥ ॥ इति हृदयंगमाः ॥ १ ॥
*
बाहोः पताको संन्यस्य भ्रमणादङ्कमौलिका | शिरः पल्लविका चाथ द्वितीया कथ्यतेऽधुना ॥ ललाटे तु पताकः स्या[द्] भवेदन्यः प्रसारितः । बाहोः प्रसारणं कृत्वा करौ स्यातां द्रुतभ्रमौ । नर्तनाच शिरोदेशे द्वितीया शीर्षपल्लवा ॥ ॥ इति शीर्षपल्लवाद्वयम् ॥ २ ॥
*
एका कुञ्चितं कृत्वा द्वितीये पाष्णितः स्थिते । यथोल्लासकरौ तस्यां भ्रमणात् कुञ्चिता मता ॥ इति कुञ्चिता ॥ ३ ॥
*
साले ताले कुञ्चिता स्यात् तथैवाङ्गस्थिता सती । कुञ्चिताया द्रुतस्पर्शा विज्ञेया भूमिपल्लवा ॥
॥ इति भूमिपल्लवा ॥ ४ ॥
*
प्रसार्य बाहुयुगले समे वाङ्गिद्वये स्थिता । तत्र वेगभ्रमणतो विज्ञेया चक्रवर्तिनी ॥
॥ इति चक्रवर्तिनी ॥ ५ ॥
*
सकृद्रेचितहस्तश्चेत् त्यक्त्वा स्थानं व संभ्रमात् । मण्डला सापि निर्दिष्टा द्विधाऽन्या सा प्रकीर्तिता ॥
[ हृदयंगमाः
११
१२