________________
सिवालिका] नृ० १० को०-उल्लास ३, आ. सं. प्रकरणम्
लास्ये तु या भुवस्त्यक्तं वस्तु गृह्णातु पण्डितः। मुहुर्मुहुः भ्रमी या सा लास्यमण्डलिका तु सा॥
॥ इति लास्यमण्डलिका ॥६॥ तिर्यक् स्वास्फालनेनैव भ्रमणाल्लम्बहस्तयोः । तिर्यग मण्डलिका नाम द्वितीयेयं प्रकीर्तिता ॥
॥ इति तिर्यग्मण्डलिका ॥ ७ ॥ सकृत् पाणिंगता भ्रान्त्वा चक्रवद्वेगिता सती। तथैवोपविशेद्भूमौ लयात् सिंहासना मता ॥
॥ इति सिंहासना ॥ ८॥ भ्रमती मण्डले या सा त्वराभ्रमणसंगता । पाणिजभ्रमरीत्युक्ता मुहुः सा परिमण्डली'।
॥ इति परिमण्डली ॥९॥ धूनयती करौ स्वीयौ पादयोः कुञ्चिताग्रयोः । न्युजं तिर्यग् ययोः कुर्याद् मुहुस्तिर्यकृते मते ॥
॥ इति न्युजकृता ॥ १० ॥ स्थित्वा चैकाङ्गिणा चान्यं दण्डवच प्रसारयेत् । यथा भ्रमति सा तस्माद्विज्ञेया तलदर्शिनी॥
__ ॥ इति तलदर्शिका ॥११॥ तिर्यपताके चोत्ताने त्वन्येनाच्छादिते सति । यथा भ्रमयी भ्रमरी प्रोक्ता मेलापनी बुधैः॥
॥ इति मेलापनी ॥ १२॥ बाहयचान्या भवन्त्येताः सव्यजा अपसव्यजाः। लास्येनेष समुद्भता धन्यास्ता अन्यतोऽधमाः॥ एतद्राज्ञां पुरंध्रीणामुद्दिष्टं यन्मयाधुना। नात्र ग्राम्यकृता भावा योज्यास्ते नाव्यकोविदैः॥ मस्तका अमरी विद्यादथो न्युनादिपातनम् । . अभूमेश्च यो योगः स च नैसर्गिको मतः।
अन्याङ्गेन समायोगो न कार्यश्च नरैः सदा ॥ 130 परीमंडली। 2 ABC repeat भ्रामरी। .. .........